________________ * 2 परिच्छेदः / सरखतीकण्ठाभरणम् / काकुस्वरपदच्छेदभेदाभिनयकान्तिभिः। पाठो योऽर्थविशेषाय पठितिः सेह पड्धिा // 56 // सा काका यथा 'यदि मे वल्लभा दूती तदाहमपि वल्लभा / - यदि तस्याः प्रिया वाचस्तन्ममापि प्रिय प्रिया // 78 // ' अत्रैकया काका विधिरन्यया निषेधः प्रतीयते // . काकुस्वरेति / किंचिदेकपरतया प्रवृत्तमुच्चारणमर्थान्तरविवक्षया यदन्यथा क्रियते सा पठितिः / अन्यथाकरणं च काकुप्रभृतिभिः षड्भिरिति / तत्र 'भिन्नकण्ठध्वनिधारैः काकुरित्यभिधीयते / ' सा द्विधा—विधिकाकुः, निषेधकाकुश्च / तकोनिषेधे परोचारणान्यथाकरणेन विधिपर्यवसायिनीं विधिकाकुः / यथा'शल्यमपि स्खलदन्तः सोढुं शक्येत हालहलदिग्धम् / धीरैर्न पुनरकारणकुपितखलालीककटुवचनम् // ' एवं विधिपरोच्चारणान्यथाकरणेन निषेधव्यञ्जिका निषेधकाकुः / तामुदाहरति-यदीति / यदि दूती प्रिया तदाहमपि प्रियेत्यादि ऋजूक्तया शटनायकविषया कृत्रिमा प्रीतिः प्रतीयते, काक्वा तु तवैव नाहं प्रियेतीर्थ्यारोपः // स्वरेण यथा. 'सुभ्रम्त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषितां ___ दूरादेव नयोज्झिताः सुरभयः लग्गन्धधूपादयः / रागं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदाधुना सत्यं त्वद्विरहाद्भवन्ति दयिते सर्वा ममान्धा दिशः // 79 // अत्र दृष्टे इत्यत्र प्लुतस्वरकरणात्कुपितकान्ताप्रसादनपरमपीदं वाक्यमुत्कुपितदृष्टिप्रसादनतां प्रतिपद्यते // खराः प्लुतादय उदात्तादयश्च / नामीषां वेद इव काव्ये भूयान्प्रयोग इति किंचिदुदाहरति-सुभ्रस्त्वमिति / चरणतलाग्रपतिते मयि दृष्टे सति त्वं प्रसीदेति दीर्वमात्रोचारणे कुपितकान्ताप्रसादपरत्वं, यथोक्तछुतकरणे तु दूरावानादौ तदनुशासनात्कुपितदृष्टिसंवोधनवुद्धिरुपजायते / अशनादयो हि द्वयोः साधारणा