________________ 2 परिच्छेदः / ) सरखतीकण्ठाभरणम् / 189 लक्षणा / तदुक्तम्-‘अभिधेयाविनाभूतप्रतीतिर्लक्षणेति या। सैषा विदग्धवक्रोक्तिजीवितं वृत्तिरिष्यते // ' सा द्विधा-शुद्धा, लक्षितलक्षणा च / तत्र साक्षास्वार्थसंबन्ध्यविनाभूतविषया शुद्धा / यथा—'यत्तालीदलपाकपाण्डुवदनम्', 'अभिनवकरिदन्तच्छेदपाण्डुः कपोलः' इति / यया पूर्वपूर्वलक्षितमेव लक्ष्यते सा लक्षितलक्षणेति केचित् / यथा-'मधु द्विरेफः कुसुमैकपात्रे', 'भीमो भीमपराक्रमः' इति / अत्र हि द्विरेफादिना शब्देन लक्षित एव भ्रमरप्रभृतिर्लक्ष्यते न तु कुररादिः / अन्ये तु लक्षणाव्यवहिता लक्षणा लक्षितलक्षणेत्याहुः / यथा'सुवर्णपुष्पां पृथिवीं चिन्वते पुरुषास्त्रयः / शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् // तद्भावापत्त्यादिविशेषसमभिव्याहारेण मुख्यादिशब्दास्तदितरतथाभूतत्वागोचरा इति पूर्ववद्याख्येयम् / क्व पुनः पदैकावृत्तिरित्यत आह--अत्रेति / 'एकहि अच्छिहिं अण्णहिं महिअलसत्थरे गण्डत्थले अङ्गहिं' इत्यादि षडाधारवचनाः / अत्र यद्यपि गण्डस्थलपदं गौणमेव, तथाप्यनादिप्रयोगयोगितया मुख्यकल्पमिति षटस्वाधारवचनेष्वित्युक्तम् / अङ्गादिपदानि च खार्थविशिष्टान्यपराण्येव प्रयुक्तानीति मुख्यैव वृत्तिः / एवं मुग्धाया इति संबन्धिपदेऽपि / 'सुहच्छितिलवणे मुहपङ्कअसरि' इति द्वावाधारवचनौ शेषौ / अत्र तिलवनसरःपदयोः ननिभरत्वसरसत्वलक्षणगुणद्वारकैव सुखासिकामुखपङ्कजयोवृत्तिः / मुखपकजसरसीत्यत्र यद्यपि पदद्वयं गोणं तथापि पङ्कजपदस्य वृत्तिरभिधातुल्येति न कविसंरम्भगोचरम्तेन व्यवहारोऽयुक्तः / 'सावण-भद्दवअ-माहव-मग्गसिरु' इति चत्वारो मायवचनाः / ते च स्वार्थसंबन्धव्यवहितं वर्षाप्रभृतिसमुदायं लक्षयन्तीति वक्ष्यमाणरीत्या वादयः षडाधेयवचनास्ते च विरहवतीशरीरे युगपच्चासंभवदवस्थितयो जलादिसंपदादिखस्वप्रवृत्तिनिमित्ताध्यासेन प्रयुज्यमानास्तद्भावापत्तिरूपां वृत्तिमासाद यन्ति / अस्याश्च विवर्तपरिणामाध्यासादयः षट्रप्रकारा गौरवभिया न दार्शताः / श्रुनार्थानुपपत्तिमूला कल्पना श्रुतार्थापत्तिः / राजादेरासिते आवासितशब्दो मुख्य वृत्त्येव विशेषणतया रूढः / स स्खविशेषगुणव्यवहितेऽर्थान्तरे प्रयुक्तो गौणीवृत्तिमनुभवन् वसन्तादेरपि विशेषणतामासादयति / लक्षणाव्यवहिता लक्षणा लक्षितलक्षणा। सा कथमावासितेतिशब्दे संपद्यत इत्यत आह-स उपचारेणेति / कथंचित्सारूप्येण श्रावणादिषु प्रयोगादुपचारस्तमुपजीव्य प्रयुक्तः खार्थाविनाभृतं महत्त्वादिकं प्रकृतेषु लक्षणया संक्रामयतीति। आद्या लक्षणा तयवहितां द्वितीयामाह-प्रस्तुताया अपीति / आवासितस्यापि हि यथोक्तविशेषणस्य