________________ 188 काव्यमाला। अत्र श्रावणादीनामिति / प्रकीर्ण विकीर्णमनेकत्र प्रतीतमिति यावत् / तद्विविधम्-कालतः, देशतश्च। अत्र हि श्रावणादिमासर्तुषट्कस्य युगपदसंभवत एकत्र विरहिणीशरीरे युगपद्भावो निबद्धः, सगुणवृत्तिव्यपाश्रयेण श्रावणादिपदे प्रतिपाद्यमानः प्रवासविप्रलम्भप्रकर्षमावेदयतीति / एवं देशविकीर्णघटनाप्युदाहार्या / यथा-'अमृतममृतं चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं रतिरपि रतिः कामः कामो मधूनि मधून्यपि / इति न भजते वस्तुप्रायः परस्परसंकरं तदियमबला धत्ते भावान्कथं सकलात्मकान् // ' यस्त्वत्र सिद्धादिभेदः कश्चिदुपवर्णितः स तथा न चमत्कारकारीति ग्रन्थगौरवभयादुपेक्षितोऽस्माभिः / तत्तदनेकासाधारणरूपाण्यपि प्रकीर्णानि प्रकीर्णपदेन ग्राह्याणि / तेषामनुक्तान्य (?) तया वोपग्रहोऽपि प्रयुज्यत इत्याह-प्रकीर्णशब्दश्चायमिति / व्याख्यानान्तरप्रयोजनमाह-तेनेति / शब्दस्यार्थप्रतिपादनशक्तिरभिधा / सा त्रिधा-मुख्या, गौणी, लक्षणा च / तासु मुखमिव प्रथमं यस्यामर्थः प्रतीयते सा मुख्या, तथाभूतार्था तद्भावापत्तिश्च / तत्रावान्तरार्थसंबन्धविषया तथाभूतार्था / यथा-'खात्मेन्दुवह्निपवनार्कमहीपयोभिरष्टाभिरेव तनुभिर्भवता समस्ते / व्याप्ते जगत्यपरमिच्छति योऽत्र वक्तुं कोऽन्यो गतत्रपतया सदृशोऽस्ति तेन // ' सैवार्थान्तरस्वार्थसंबन्धविषया तद्भावापत्तिः / अतथाभूतस्य तथात्वापादनं हि सा / अत एव खतोऽन्यतों वा स्वार्थावच्छिन्नस्य साक्षादभिधानशक्तिरेव मुख्येत्याचार्याः / यथा-'कमला अण्णसणीआ हंसा उड्डाविआण अपि उच्छा / केण वि गामतडाए अभं उत्ताण वूढम् // ' गुणव्यवहितार्था गौणी। [सा द्विधा] गुणनिमित्ता उपचारनिमित्ता च। तत्र द्वयोर्द्रव्यवचनयोर्यत्र सामानाधि. करण्येन वैयधिकरण्येन वा प्रयोगे विशेषणविशेष्यभावान्यथानुपपत्त्या प्रतीयमानाभिधीयमानगुणद्वारकसंबन्धो भवति सा गुणनिमित्ता / यथा-'पडिवक्खमण्णुपुछे लावण्णकुडे अणङ्गगअकुम्भे / पुरिससअहिअअभरिए कीस खलन्ती थणे वहसि // ' मुख्यया गोण्या वान्यविशेषणस्यान्यत्र प्रयोग उपचरिता सापि गुणयोगमुपजीवन्ती गुणवृत्तिरेव / एतावांस्तु विशेषो यद्गुणनिमित्तायामभिधेयगुणयोगः, इह तु खाभिधेयविशेष्यगुणयोग इति / यथा-'परार्थे यः पीडामनुभवति निर्व्याजमधुरो यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः / न संप्राप्तो वृद्धिं सपदि भृशमक्षेत्रपतितः किमिक्षोर्दोषो यन्न पुनरगुणाया मरुभुवः // ' स्वार्थसंबन्धव्यवहिता 1. 'प्रतिपक्षमन्युपुजी लावण्यकुटावनङ्गगजकुम्भौ। .. पुरुषशतहृदयधृतौ किमिति स्खलन्ती स्तनी वहसि // ' [इति च्छाया।]