________________ * 2 परिच्छेदः / सरखतीकण्ठाभरणम् / 187 नाङ्गेऽनुपपद्यमानः सूर्यांशुकार्कश्यप्रतप्तपांसुतापपरुषोप्मानिलत्वदावाग्निकालुष्यादेः स्वधर्मसंपदः समानानीकभूताभूतपूर्वानङ्गज्वरलिङ्गसंपदमुपयन्नष्टमी कामावस्थामुपलक्षयति / मार्गशीर्ष इत्यनेन तु पूर्वावयवेन हेमन्तो लक्ष्यते / तेन च यथा हेमन्ते तिलवनं लूयते तथा तस्याः सुखासिका सांप्रतं ल्यत इति लक्षितेनातिशयिनी मनःपीडोपलक्षिता भवति / का पुनः सुखासिका तिलवनयोः समानधर्मता येयं स्नेहनिर्भरता नाम / अभिसारिकाणां च प्रायेण तिलवनाजिनीखण्डयोरेव बहुमानप्रसिद्धिः / यदित्थमाहुः___ 'अत्तन्तहरमणिजं अम्हं गामस्स मण्डणीहू अम् / - लुअतिलवाडिसरिच्छं सिसिरेण कअं भिसिणिसण्डम् // 77 // ' . अत्यन्तरमणीयमस्माकं ग्रामस्य मण्डनीभूतम् / लून तिलवाटीसदृशं शिशिरेण कृतमब्जिनीखण्डम् // ] . अत एवायमुत्तरवाक्ये कमलसरःशब्देनाजिनीखण्डमपि निर्दि- . शति / तद्यथा 'मुद्धिहि मुहपङ्कअसरि आवासिउ सिसिरु' / मुग्धावा मुखपङ्कजसरसि आवासितः शिशिरः / तत्र शिशिर इत्यनेन ऋतुविशेषेण मुग्धामुखेऽपि पद्मसरसीव शब्दशक्त्या निवेशितेन कमलवनोपप्लवादेः स्वधर्मसंपदो लोकप्रतीतायाः प्रत्यासन्ना मुग्धामुखाम्भोरुहलोचनोत्पलस्मितकुसुमदशनकेसरादेश्छायापरिम्लानिर्लक्ष्यमाणा विप्रलम्भानुभावप्रकर्षमुपलक्षयति / शिशिरलक्ष्मीवर्णनप्रस्तावाच 'मुखमधु शरीरस्य सर्व वा मुखमुच्यते' इति प्रस्थानप्राधान्यलक्षणया सर्वर्तुभ्यः शिशिर एव प्रधानमित्यपि लक्षितं भवति //