________________ 186 काव्यमाला। मुख्या / शेषयोर्द्वयोराधारवचनयोhणी / श्रावणादिषु चतुर्पु मासवचनेषु लक्षणा / षट्खपि चाधेयवचनेषु वर्षादिषु लंक्षिताभिहितेप्वपि युगपदसंभवत्सु श्रुतार्थापत्तिलभ्या तावद्भावापत्तिः। आवासित इति क्रियापदं चोपचरिताव्यक्तमेव प्रतीयते / लक्षितलक्षणापि चैतावेव व्याख्यानत उन्मिषति / तथाह्यावासितशब्दोऽयमभिमतप्रदेशनिवेशितमहापरिच्छदे महाराजादौ निरूढाभिधानशक्तिः / स उपचारेण श्रावणादिषु प्रयुज्यमानस्तेषामपि महत्त्वमभिलक्ष्य महापरिच्छदतां महासंभवत्वं च लक्षयन् प्रस्तुताया अपि प्रवृत्तेर्महान्तमनुवन्धं लक्षयति / ते च युगपल्लोचनादौ चानुपपद्यमानस्थितयः खशब्दशक्तितस्तत्र तत्र च निवेश्यमानाः स्वधर्मसंपदः प्रत्यासन्नायां तद्धर्मसंपदमुपलक्षयन्ति / असावसौ विरहवत्या अपि वियोगवेदनातिशयं लक्षयन्ती कमितरि स्नेहातिशयं लक्षयति / तत्र श्रावणो भाद्रपद इत्येताभ्यामवयवाभ्यां वर्षतुलेक्ष्यते / स च लोचनयोरनुपपद्यमानस्थितिरपि विभक्तिश्रुत्या निवेशितः पयःपृषत्प्रवाहलक्षणायाः वधर्मसंपदः प्रत्यासन्नामविच्छिन्नाश्रुसंपदमुपलक्षयन्समागमोत्काया उत्कण्ठातिशयं लक्षयति / माधव इत्युत्तरावयवेन वसन्तो लक्ष्यते / सोऽपि महीतलस्रस्तरेऽनुपपद्यमानस्थितिः प्राग्वदेव शब्दशक्त्या निवेशितः कुसुमकिसलयमृणालकमलिनीदलादिकायाः खधर्मसंपदः समासन्नां शिशिरोपकरणसामग्रीमुपलक्षयन्कामवत्याः शरीरान्तस्तापं लक्षयति / शरदित्यनेन ऋतुविशेषोऽभिधीयते / सा गण्डयोरनुपपद्यमानस्थितिः प्रशंसावचनस्यापि स्थलशब्दस्यानुस्मरणशक्त्या समाकृष्यमाणकाशकुसुमहंसागमनकुमुदसरःप्रसादचन्द्रातपादिकायाः खधर्मसंपदः समासन्नं गण्डयोः पाण्डुभावं लक्षयन्मृगेक्षणाया विरहकार्यमुपलक्षयति / ग्रीष्म इत्यनेनापि ऋतुविशेष एवोच्यते / सोऽप्यङ्ग