________________ 15 2 परिच्छेदः / सरखतीकण्ठाभरणम् / इयं खेतिहेतिवर्णाभ्यां खाहेति पदस्य घटितत्वात्पदघटना / / इयं खेति / खाहाकार प्रदानो होमस्तत्र सद्यश्छिन्नेन शिरसा प्राणशेषयोगात् पदार्धमात्रे निष्पादिते तदैव भूतकरुणासंतानशान्तात्मना परमेश्वरेण खेदाविष्कारबाची हाशब्दः प्रयुक्तस्तेनैव निरन्तरमुच्चरता स्वाहापदं सिद्धमिति // वाक्यघटना यथा 'हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता / विभावितैकदेशेन स्तेयं यदभियुज्यते // 75 // ' इयं पूर्वशास्त्रनिबद्धस्योत्तरार्धस्य तदर्थाननुयायिनापि प्रस्तुतार्थाविरुद्धेन पूर्वार्धनकवाक्यतयैव घटितत्वाद्वाक्यघटना // इयं पूर्वशास्त्रेत्यादि / सुगमम् // प्रकीर्णघटना यथा'एकिंहिं अच्छिहिं सावणु अण्णहिं भद्दवउ __ माहउ महिअलसत्थरि गण्डत्थल सरउ / अङ्गहिं गिम्ह सुहच्छिइ तिलवण मग्गसिरु मुद्धिहिं मुहपङ्क असरि आवासिउ सिसिरु // 76 // ' एकस्मिन्नक्ष्णि श्रावणोऽन्यस्मिन्भाद्रपदः माधवो महीतलस्रस्तरे गण्डस्थले शरत् / अङ्गे ग्रीष्मः सुखासिका तिलवने मार्गशीर्षः मुग्धाया मुखपङ्कजसरसि आवासितः शिशिरः // ] .अत्र श्रावणादीनामयुगपद्भावित्वेन विप्रकीर्णानां घटनादियं प्रकीघटना / प्रकीर्णशब्दश्चायं शेषवाची / तेनान्यासामपि प्रकीर्णघटनानामिहावकाशो भवति, तेन या इमा महाकविप्रबन्धेषु मुख्यगौणीलक्षणास्तद्भावापत्तिरुपचरिता लक्षितलक्षणेति शब्दवृत्तयस्ता अपीह श्रूयन्ते / यत्रादितः षट्खाधारवचनेषु मुग्धाया इति संबन्धिपदे च