________________ . काव्यमाला / अतिक्रान्तेन कुत्रापि पदार्थ वर्णयोः कचित् / वाक्यार्थे वाक्ययोः कापि प्रकीर्णानां च दृश्यते // 55 // अतीति / पदार्थ पदसिध्यर्थम् , एवं वाक्यार्थमिति // तासु प्रक्रान्तघटना यथा 'स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् / . ऋषीज्योतिर्मयान्सप्त समार स्मरशासनः // 71 // ' सेयं सप्तर्षीणामागमनस्य प्रक्रान्तस्यैव घटना // सेयं सप्तर्षीणामिति / गौरीपरिणयप्रापकतया प्रकरणसंगतसप्तर्षिवृत्तान्तः॥ अप्रक्रान्तघटना यथा 'अत्राप्युदाहरन्तीममितिहासं पुरातनम् / निषादस्य च संवादमृषेः संवरणस्य च // 72 // ' सेयमप्रक्रान्तस्य निषादसंवरणसंवादस्य घटनादप्रक्रान्तघटना // इयमप्रक्रान्तस्येति / संवरणनिषादसंवादस्य पूर्वापरप्रकरणानुपयोगेऽपीतिहासरूपेण संगतिः // अतिक्रान्तघटना यथा 'तस्य चक्रुश्चमत्कारं व्यतीतसमया अपि / स्मितामुकुलोद्भेदाः कदम्बवनराजयः // 73 // " इयमतिकान्तस्यापि कदम्बवनराजीनामार्द्रमुकुलोद्भेदस्य विरहिमनश्चमत्कारकारिणो रामस्य स्मृतिद्वारेण घटनादतिक्रान्तघटना // इयमतिक्रान्तस्यापीति / कदम्बकुसुमोद्भेदस्य प्रत्यक्षस्यैव विरहिजनतातङ्कदायित्वं संभवतीति कथमतीतस्य तद्भयस्येत्युक्तं 'स्मृतिद्वारेण' इति / संकल्पवशेन प्रत्यक्षायमाणस्येत्यर्थः / एवमनागतयोजनापि गुणादिना बोद्धव्या // पदघटना यथा 'छिन्नेन पतता वह्नौ यन्मुखेन हठात्कृते / खेतिहेति हरेणोक्तेः खाहासीत्सैष रावणः // 74 // '