________________ / 2 परिच्छेदः / सरस्वतीकण्ठाभरणम् / 183 अत्र लाङ्गलवल्लीवलयितबकुलैनंदद्भिर्गोलाङ्कलैः प्रतिरसितजरत्कन्दरामन्दिरेषु खण्डेषु उद्दण्डपिण्डीतगरतरलनाः पुटकिनीबन्धवो गन्धवाहा वेलामालम्व्य येन प्रापिरे इत्यतोऽधिकानामपुष्टार्थानामपि पदानामनुप्रासाय च्छन्दःपूरणाय चार्थानुगुण्येन रचितत्वादियं पदरचना // लोलल्लाङ्लवल्लीति / लालवल्लीवलयितेत्यादि यथोक्तवाक्यविरचनमात्रेणैव प्रयोजनपरिग्रहे सिद्ध यदधिकानां लोलद्वल्लीप्रभृतिपदानामावापरतेन विना नोचितानुप्राय सिद्धिर्नच तया विना वृत्तौचिती समाप्यते / न वा तामन्तरेण लाङ्गलादीनामभिमतास्ते ते विशेषाः प्रतीयन्त इति पल्लवप्रतिष्ठैव हि सरस्वती सहृदयानावर्जयतीति–'वाक्यप्रतीतिमात्रार्थमुपात्तेषु पदेषु यः / उपस्कारः पदैरन्यैः पल्लवं तं प्रचक्षते // अपल्लवं तु यद्वाक्यं कविभ्यस्तन्न रोचते / प्रयुज्यते तथाभूतमुदीच्यैः कविगर्हितम् // ' तदिदमाह-अत्रेत्यादि // वाक्यकृता यथा 'पतिश्वशुरता ज्येष्ठे पतिदेवरतानुजे / मध्यमेषु च पाञ्चाल्यास्त्रितयं त्रितयं त्रिषु // 70 // ' इह महतोऽर्थस्याल्पीयसा ग्रन्थेनाभिधानमिति व्युत्क्रमेणापि ग्रन्थलाघवाय वाक्यार्थी रचित इतीयं वाक्यरचना // __ वाक्येति / वाक्यरचना तु महावाक्य एव भवतीति / तथाहि / पतिश्वशुरतेत्यादिकमन्पाक्षरमेव वाक्यं महतोऽर्थराशेः समर्पकमिति भावयतां सहृदयानां कवित्वशक्तिमान्यूदेव प्रकाशते / अत एव शक्तितिरस्कारादाद्यन्तावभिधाय मध्यमाभिधाने कनभ्रंशोऽपि तिरस्क्रियत इत्याह–अत्रेति // शव्येत्याहुः पदार्थानां घटनायां परस्परम् / . सा प्रक्रान्तेन कस्मिंश्चिदप्रक्रान्तेन कुत्रचित् // 54 // शय्येति / किंचिदेकं वस्तु बुद्धौ समाधाय तदधिकारप्रबन्धरचनायामधिकस्यान्तरान्तरा प्रकृते योजना शय्या / पदार्थानां प्रस्तुताप्रस्तुतवस्तूनाम् / तच्च योजनीयं शब्दार्थभेदेन द्विविधम् / तत्र वस्तुवाक्ययोरेव योजना महाकविप्रबन्धेषु दृश्यते / अर्थस्तु प्राकरणिकार्थोपयोगी तदनुयोगी चेति द्विविधः / द्वितीयोऽप्यतिक्रान्तोऽतथाभूतश्चेति पूर्ववद्विभागवाक्यं व्याख्येयम् //