________________ 182 काव्यमाला / .: ध्रुविभ्रान्तिर्मदनधनुषो विभ्रमानन्ववादी द्वक्रज्योत्स्नाशशधररुचं दूषयामास यस्याः // 67 // - अत्र पत्रप्रदानपूर्वपक्षोपन्यासानुवाददूषणोद्भावनानां बुधजनप्रसिद्धक्रमेण रचितत्वादियं क्रमरचना // / नीलाब्जेति / पत्रदाने स्पर्धा व्यज्यते / सा च सादृश्यपर्यवमायिनीति प्रतीयमानोपमा / इभकुम्भपूर्वपक्षीकरणेन कुचाभोगस्य सिद्धान्तभावोऽवगम्यते / तथा च व्यतिरेको ध्वनितः / अनुवादेनाप्युपमा प्रतीयते दूषणेन व्यतिरेक इति प्रकृतपर्यवसाने समासोक्त्या यत्र दानादीनां विद्वद्वादिप्रसिद्धानां शादानभिधेय एव क्रम उपाधिभूतो ग्रथित इत्युदाहरणव्याख्यानग्रन्थार्थः // पयोयकृता यथा'कणइलि चिअ जाणइ कुन्तपलस्साइ कीरसंलवई / पूसअभासं मुञ्चसु ण हु रे हं धववाआडी / / 68 // ' [शुक्येव जानाति शुकप्रल पितानि कीरसंलापिनी / कीरभाषां मुञ्च न खलु रेऽहं धृष्टशुकी // ] सेयं शुकनामपर्यायाणामर्थानुगुण्येन रचितत्वात्पर्यायरचना // कणइल्लि च्चिअ इति / केनचिद्विटेन शुकभाषामनु कुर्वता प्रियायाः परिहास आरब्धः / सा तस्य दुर्विदग्धत्वमाकलयन्ती तदुचितमुत्तरमदान शुक्रपलपितानि किल शुकी जानाति नान्या / न चाहं शुकी / ततो विफलस्तवाचं प्रगान इत्यर्थः / अत्र कुन्त-कीर-पूस-शब्दाः शुकपर्यायाः। कणइल्ली-वाआडी-शब्दों शुकीपायो / तत्रापि कीरशब्दस्तत्समः / अन्ये देशीरूपाः। तदेतेषां पर्यायाणां यथोक्तरूपानुगुणानामेकत्रवाक्ये गुम्फनमेव कविसंरम्भगोचर इति // पदकृता यथा'लोलल्लाङ्गलवल्लीवलयितबकुलानोकहस्कन्धलोले गोलाङ्गूलै दद्भिः प्रतिरसितजरत्कन्दरामन्दिरेषु / / खण्डेषूद्दण्डपिण्डीतगरतरलनाः प्रापिरे येन वेला मालम्ब्योत्तालतल्लस्फुटितपुटकिनीबन्धवो गन्धवाहाः // 69 // '