________________ 2 परिच्छेदः / / सरखतीकण्ठाभरणम् / 181 सेयं ठंठमित्यादेनिरर्थकस्य श्लोकपादस्यार्थानुगुण्येन वाक्ये रहितत्वाच्छब्दरचना // रामेति / राज्याभिषेकोत्सवजातहर्षायाः करात्प्रच्युतस्य सोपानपरम्परासु स्खलतः काञ्चनकलशस्य भूभागप्राप्तिर्यावत्क्रमेणोचरन्ती शब्दमालानुकृतेति प्रकृतार्थानुगुण्यम् / एवं हि करच्युतमपि न संभावयतीति कोऽपि मदप्रकर्षो व्यज्यते॥ अर्थकृता यथा'दिक्कालात्मसमैव यस्य विभुता यस्तत्र विद्योतते यत्रामुष्य सुधीभवन्ति किरणा राशेः स यासामभूत् / यस्तत्पित्तमुषः स यस्य हविषे यस्तस्य जीवातवे वोढा यद्गुणमेष मन्मथरिपोस्ताः पान्तु वो मूर्तयः // 66 // ' सेयं व्योमादीनामष्टानामपि महेशमूर्तिलक्षणानामर्थानामुत्तरोत्तरसंकलनया रचितत्वादर्थरचना // दिक्कालेति / दिक्कालात्मतुल्यं सर्वमूर्त संयोगाश्रयतालक्षणं विभुत्वमाकाशस्यैव तस्मिन्नाक्षिप्ते यच्छब्दोऽयमुद्देश्यगामी निविशते तमुपजीव्य तच्छब्देन प्रतिनिर्देशो युक्तः / आकाशे विशेषेण चन्द्रतारादितेजोभिभवसामर्थ्यलक्षणेन योतते भगवानादित्य इति यच्छब्देन तमुद्दिश्योत्तरवाक्येऽदसा प्रतिनिर्दिष्टवान् / कर्णगत्या प्रतिफलिताः सूर्यकिरणाः सलिलमयेष्टाशिन्येव सुधाव्यपदेशं लभन्ते, तत्रैव यच्छब्दो निविष्टस्तदुपनीतमर्थमुत्तरस्तच्छब्दो विषयीकरोतीत्यादि-अपामेव राशेश्चन्द्रो जातस्तासां पित्तं वह्निस्तस्य सायंप्रातराहुतये यजमानः स वायुना जीवति / स च पृथिवीगुणं गन्धं वहतीति पूर्वपूर्वसंकलनेनोत्तरवाक्यार्थरचना विहितेति / यद्यपि चार्थगुम्फे शब्दगुम्फो ध्रुवभावी, तथापि प्रथमानुसंधेयमर्थगुम्फनमेवात्र प्रधानमिति तेनैव व्यपदेशो युक्त इत्याशयवान्व्याचष्टे-अत्रेति। यदीयं शृङ्खला न प्रतिसंधीयते कथं परमेश्वरमूर्तयोऽष्टौ लभ्यन्त इति भावः // क्रमकृता यथा'नीलाजानां नयनयुगलद्राधिमा दत्तपत्रः कुम्भावैभौ कुचपरिकरः पूर्वपक्षीचकार /