________________ 180 काव्यमाला। गत्या शठे संभाव्यमानमाश्चर्यमुन्मुद्रयत्सामान्यपरम्परया प्रेमाविष्टमन्तःकरणमावेदयति / यदि ज्योतिरादेस्तमःप्रभृतीनामुद्गमः स्यादपि प्रियादप्रियमिति सर्वथैव निषेधे विधातव्ये प्रत्यक्षपरिकल्पितस्यान्यथाकर्तुमशक्यत्वात्प्रमेयविरोधमसहमाना विधत्ते च निषेधति चेति निषेधविधिप्रसङ्गे विधिनिषेधरूपा भणितिर्भवति // कल्पनाभणितिर्यथा'दृश्यं दृशां सहस्रैर्मनसामयुतैर्विभावनीयं च / सुकृतशतकोटिभोग्यं किमपि वयः सुभ्रवः खदते // 64 // अत्र वयोरामणीयकातिशयस्य दृक्सहस्रादिभिरेवावलोकनीयत्वादि. योग्यताकल्पनादियं कल्पनाभणितिविधिनिषेधे निषेधविधिरूपा // दृश्यमिति / यद्यपि द्वाभ्यामेकेनाल्पीयसा च नेत्राभ्यां मनसा सुकृतेन च वयसो यौवनस्य दृश्यत्वविभावनीयत्वभोग्यत्वानि प्रतीतिमुखमवतीर्णानि, तथापि जीवितसर्ववभूतायामितरकामिनीसाधारण्यामितरसाधारण्यमसहमानो दृगादिसामान्ये सहस्रत्वादिकं कल्पयन्साधारणधर्मनिषेधसरणिमारुह्य विशेषं विधत्ते / सेयं भणितिविधिनिषेधप्रसङ्गे निषेधघटकद्वारा विधिरूपा भवतीत्यास्तां विस्तरः // वाक्ये शब्दार्थयोः सम्यग्रचना गुम्फना स्मृता / शब्दार्थक्रमपर्यायपदवाक्यकृता च सा // 53 // वाक्य इति / एकार्थप्रतिपादनावच्छिन्नः शब्दसमुदायो वाक्यम् , तस्मिन्विषयभूते आनुपूय॑ण ग्रन्थनं रचना, सा कथमतिप्रसक्ताप्यलंकार इत्यत आहसम्यगिति / प्रकृतपरिपोषाधानलक्षणमौचित्यमापन्नेत्यर्थः / वाक्यत्वमर्थशब्दाभ्यां विशेषणविशेष्याभ्यां व्यवतिष्ठते / तेन द्वयोरेव गुम्फना समाप्यत इत्याशयेन शब्दार्थयोरित्युक्तम् / तत्र शब्दो द्विविधः-वाच्यः, उपाधिश्च / प्रतिपादकशब्दो द्विरूपः पदवाक्यभेदात् / पदं द्विधा-पर्यायभूतरूपम् , अतथारूपं च / तदेत. द्विवक्षावैचित्र्यमङ्गीकृत्य विभजते-शब्द इति / अप्रतिपादकः शब्दः शब्दपदेनोक्तः / अर्थो वाच्यः / क्रमग्रहणमुपाध्युपलक्षणम् // तासु शब्दकृता यथा'रामाभिषेके मदविह्वलायाः कराच्युतो हेमघटस्तरुण्याः / सोपानमासाद्य चकार शब्दं ठंठंठठंठंठठठंठठंठः // 65 //