________________ 2 परिच्छेदः / ] सरस्वतीकण्ठाभरणम् / * विशेषभणितिर्यथा 'रेवतीदशनोच्छिष्टपरिपूतपुटे दृशौ / - वहन्हली मदक्षीबः पानगोष्ठ्यां पुनातु वः // 61 // अत्र रेवतीदशनोच्छिष्टयोरपि हलिशोर्यत्पूतत्वं, मदक्षीबस्यापि हलिनो यत्पावनत्वमसौ विशेष इतीयं विशेषभणितिर्निषेधे विधिरूपा // ' रेवतीति / दशनोच्छिष्टं चुम्बितम् / उच्छिष्टक्षीबयोन क्वचित्पूतत्वं पावनत्वं वा दृष्टचरमिति हलिनेत्रपुटहलिनोर्विधीयमानं देवताचरितस्य लोकोत्तरतां गमयतीति निषेधप्रसङ्गे विधिरूपेयं भणितिः // संवृत्तिभणितियथा 'आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः / ___ उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः // 62 // ' अत्र प्रसिद्धवर्णनाप्रपञ्चविधेराभरणस्याभरणं वपुरित्यादिवाक्यैः संवरणादियं संवृत्तिभणितिर्विधौ निषेधरूपा // .. __ आभरणस्येति / अत्र चन्द्रमुखी दुग्धधवलनयना बिम्बोष्टी करिकुम्भस्तनीत्यादिकविसमयप्रसिद्धवर्णनाप्रपञ्चप्रसङ्गे यथोक्तरूपेण तस्य संकोचो निषेधस्तप्रतिष्टाभणितिरलंकरणमेवानया क्रियत इति कान्तिविशेष व्यञ्जयन्ती विधौ प्रसक्त निषेधरूपा भवति // .. आश्चर्यभणितियथा-. 'ज्योतिभ्य॑स्तदिदं तमः समुदितं जातोऽयमयः शिखी पीयूषादिदमुच्छ्रितं विषमयं च्छायाप्तजन्मातपः। को नामास्य विधिः प्रशान्तिषु भवेद्बाद गुढीयानयं ग्रन्थियत्प्रियतोऽपि विप्रियमिदं सख्यः कृतं सान्त्वनैः॥६३॥' अत्र ज्योतिःप्रभृतिभ्यस्तमःप्रभृतीनामुत्पत्तेराश्चर्यरूपत्वादियमाश्चर्यभणितिनिषेधविधौ विधिनिषेधरूपा // ज्योतिर्म्य इति / प्रियो हि नाप्रियमाचरतीत्युत्सर्गसिद्धाप्रियानाचरणं दैव