________________ 178 काव्यमाला। प्रसङ्गे निषेधरूपा भणितिर्बहिरसंभाविनः क्वचिदसतो विशेषस्योत्प्रेक्षाकल्पना / तामाश्रयन्ती विधाननिषेधमात्रेण चरितार्था किंचिद्विशेषं विदधातीति विधिनिषेधप्रसङ्गे सामान्यतः प्रतिषेधति विशेषतश्च विधत्त इति निषेधविधिरूपा कल्पना भणितिः॥ अत्र संभवभणितियथा'सद्योद्रावितकेतकोदरदलस्रोतःश्रियं बिभ्रती येयं मौक्तिकदामगुम्फनविधेर्योग्यच्छविः प्रागभूत् / उत्सेक्या कलशीभिरञ्जलिपुटैः पेया मृणालाङ्कुरै___ तिव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका // 59 // ' अत्र ज्योत्स्नायाः सद्योद्रावितकेतकोदरदलस्रोतःसादृश्यादिसंभवादियं संभवभणितिर्द्विरूपा // सद्य इति / केतकोदरदलानां द्रावणम् , ततः स्रोतोरूपता, ततस्तेनोपमिताया बहलतरबहिर्भागस्य कलशीभिरुत्सेचनम्, अनन्तरं किंचिदल्पीभूतमध्यभागस्य करतलाञ्जलिपुटैर्मानम् , ततः शेषीभवतः सारभागस्य मृणालाङ्कुरैः पानमिति वहिरसंभाविन एव श्रियं बिभ्रतीति निदर्शनया योग्यपदेनौत्सेक्येत्यादिभिश्चमस्कारिणी संभावना जायते // असंभवभणितियथा 'क्क पेयं ज्योत्स्नाम्भो वदनबिसवल्लीसरणिभि___णालीतन्तुभ्यः सिचयरचना कुत्र भवति / क वा पारीमेयो बत बकुलदाम्नां परिमल: कथं स्वप्नः साक्षात्कुवलयदृशं कल्पयतु ताम् // 60 // ' अत्र ज्योत्स्नादीनां मृणालादिभिः पेयत्वादेरसंभवादियमसंभवभणितिनिषेधरूपा // ____ व पेयमिति / स्वप्नस्य साक्षात्कल्पने सामर्थ्यमसंभावितं तदेवमेवोच्यमानं तथा शोभामुन्मीलयतीति व पेयमित्यादि प्रतिवस्तुना- निर्देशव्यङ्ग्यारक्तिसुषमाविस्तारं कुर्वाणा भवत्यसंभवभगितिः / पारी भाण्डभेदः // .