________________ काव्यमाला। गर्भविमर्श निर्वहणाख्याः पञ्च / प्रकृतरसावस्थारूपाणि च पञ्चैव / बीजबिन्दुपताकाप्रकरीकार्याणि तत्तत्प्रकरणप्रबन्धरूपवाक्यैकदेशयोजनान्यवगन्तव्यानि // यत्तत्तदाधुपादाननिमित्ता वाक्यार्थयुक्तिर्यथा'तिष्ठ द्वारि भवाङ्गणे ब्रज बहिः सझेति वर्मेक्षते ___ शालामञ्च तमङ्गमञ्च वलभीमञ्चेति वेश्माञ्चति / दूतिं संदिश संदिशेति बहुशः संदिश्य सास्ते तथा ___ तल्पे कल्पमयीव निघृण यथा नान्तं निशा गच्छति // 56 // " अत्र प्रथमपादे क्रियासमुच्चयः, द्वितीये क्रियाभ्यासः, तृतीये दूतीं संदिश संदिशेति यावक्रियासमभिहारः। शेषे तु तथा सास्ते यथा निशान्तं न गच्छतीति यत्तदोरुणदानं वाक्यार्थयुक्तेर्हेतुः प्रतीयते / सेयमुक्तलक्षणा वाक्यार्थयुक्तिर्भवति // अश्रद्धेयपर्वतादिवर्णनोपपत्तिहेतुः प्रकरणविषया यथा'मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गः / भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः // 57 / ' प्रबन्धव्यापिवस्तूपपत्तेहेतुस्तु प्रबन्धविषया युक्तिर्भवति / सा यथा'धूमज्योतिःसलिलमरुतां संनिपातः क मेघः संदेशार्थाः क पटुकरणैः प्राणिभिः प्रापणीयाः / इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु // 58 // ' तिष्ठेति / उपस्थितिसमयसीमामतिकामति प्रियतमे तत्कालद्विगुणितोत्कण्ठातरलितान्तःकरणः कदाचित्प्रागिव गर्भगृहद्वारि तिष्ठति। ततस्तत्रानवलोकमाना गृहाङ्गणे भवति / तदनन्तरं वेश्मनो बहिर्बजति / सोऽयं विजातीयक्रिार्थनानाधातुगोचरः सर्वकालेषु 'समुच्चयेऽन्यतरस्याम्' (3 / 4 / 3) इति लोटो हिरनुशिष्यते / अत एव दर्शनावच्छेदभूतद्वारावस्थानादिसामान्यवचनः समुच्चये सामान्यवचनस्य' (3 / 4 / 5) इत्यनुशासनान्नियमितप्रयुक्तिरीक्षतिरनुप्रयुज्यते। नायकस्य सर्वथा हृदय