________________ * 2 परिच्छेदः / ) सरस्वतीकण्ठाभरणम् / 175 तन्नागेति / नागेन्द्रकरवदूरः पार्वतीभागे, दोर्बाहुश्च देवभागे, करिकुम्भवत्पीनः स्तनो देवीभागे, अंसः स्कन्धश्च देवभागे, एवंविधत्वत्पितुरीश्वरस्य वपुस्त्वन्मुखे / एकविषाणतया करिकरिणीसमाहारात्मनि वीक्षामह इति वाराह्याः परिहासोक्तिः / वाराही वराहप्रकृतिभूतो मातृविशेषः / इभवदनो विनायकः / स्त्रीत्वपुंस्त्वयोः परस्परपरिहारेणोपलम्भाद्विरुद्धयोरापे त्वत्पितुरित्यनेन स्तुतिनिन्दयोः प्रतिषेधेन रम्यताभीषणतयोर्भागव्यवस्थया मुखवपुषोः सादृश्येनाभितो. ऽभिप्रायप्रतिविम्बितेन योजना विहितेति तत्प्रतिपादकानां पदानामेकवाक्यतासिद्धिः / तदिदमाह-अत्रेति // वाक्यगर्भादिविषया वाक्ययुक्तिर्यथा'दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा सा च वदन्त एव हि वयं रोमाञ्चिताः पश्यत / विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम् // 55 // ' अत्र वदन्त एव हि वयं रोमाञ्चिताः पश्यतेति वाक्यगर्भः / तत्रैव पश्यतेति वाक्यान्तरे भावाविष्कारवाचा निगर्भः / किमपरं रामाय तस्मै नम इति वाक्यसंवृत्तिः / यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतमिति वाक्यसमुच्चयः / सेयमेतेषां योजनाद्वाक्यविषया युक्तिर्भवति / दिङ्मातेति / जातिक्रियेत्यादिना क्रमेण विरोधप्रसिद्धेर्गुणविरोधमुच्य क्रियाविरोधो व्यारक : / आघाटः सीमा। गर्भो विवृतपूर्वस्तत्रैवाश्चर्यरसाविष्टब्धस्य वक्तुः पश्यतेति वाक्यान्तरं निगर्भः / गर्भवाक्येन समर्प्यमाणप्रकृतरसान्वयिनि रसे प्रकर्षा धायको निगूढो गर्भो निगर्भ इत्युच्यते। तदिदं भावाविष्कारवाचीत्युक्तम् / विप्राय प्रतिपाद्यते संपन्ना तैरभुज्यत इत्यादि वक्तव्ये किमपरमित्यस्य संवृत्तित्वेन योजना। एवं हि कियदस्य महानुभावस्य तादृशाचरितं प्राप्यते तदिह मौनमेवोचितमिति भूयान्प्रकर्षोऽवसीयते / 'यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम्' इति वाक्यद्वयस्य पूर्ववाक्यगततार्थसमुच्चयवाचिना चकारेण योजना व्यक्तैव / एवमादय इति / तद्यथा-वीथ्यङ्गानि त्रयोदशप्रस्तावनापरिचेयानि / संध्यङ्गानि विलासाद्यानि चतुःषष्टिसंधयश्च रूपकावयवभूता मुखप्रतिमुख