________________ 174 काव्यमाला. तत्र योगरूढिपरम्परादिनिमित्ता पदयुक्तिर्यथा- 'प्राच्यां निर्जितजम्भजिहिपशिरः सिन्दूरशोभं दिशि .. प्रत्याख्यातहयाङ्गनास्यहुतभुग्ज्योतिः प्रतीच्यर्णवे / प्रातर्जातमदोन्मिषत्कमलिनीकिञ्जल्ककल्कोद्भटं भानोः पूर्णनभःकटाहकुहरकोडं महः पातु वः // 53 // ' अत्र जम्भजिद्विप इति योगरूढिपरम्परा, हयाङ्गनास्यहुतभुगिति पर्यायपरम्परा, प्रातर्जातमदोन्मिषत्कमलिनीकिञ्जल्ककल्कोद्भटमिति हेतुपरम्परा, नभःकटाहकुहरकोडमित्यङ्गाङ्गिभावपरम्परा च परिस्फुरन्ती दृश्यते // - प्राच्यामिति / जम्भजित्पदं कृदन्तत्वाद्यौगिकम् / तथा जम्भजिद् द्विप इत्यपि समासत्वात् / तदेतदुभयं योगेनातिप्रयुज्यमानं निरूढिद्वयेन विवक्षितैरावतरूपे वस्तुनि नियम्यते / हयाङ्गनेति वडवापर्यायः / आस्यमिति मुखपर्यायः / हुतभुगित्यनलपर्यायः / सेयं पदपरम्परापर्यायताप्रतिसंधानेनाभिमतवडवामुखानलप्रतीतिं करोति / मदस्य किञ्जल्कोन्मेषे तस्य कल्के तस्याप्युद्भटतायां हेतुभाव इति कार्यकारणपरम्परा / नभःकटाहोऽङ्गी / तस्याङ्गमेकदेशः कुहरं तस्यापि क्रोड इत्यङ्गाङ्गिपरम्परा च यथाभिमतपदैकवाक्यतानिदानमिति तदेतद् व्याचष्टेअत्रेति / परिस्फुरन्ती कविशक्तिव्यञ्जकतया सहृदयहृदयेषु प्रतिफलति // विरुद्धजात्यादियोगनिमित्ता पदार्थयुक्तिर्यथा'तन्नागेन्द्रकरोरुदोःकरिशिरःपीनस्तनांसं वपुः स्त्रीपुंसाकृति यत्पितुस्तव मुखे रम्योग्रमीक्षामहे / वाराह्या इति नर्मणीभवदनः पश्यन्यदास्या मुखं नाभिष्टौति हसन्न निन्दति तदा श्लिष्टोऽम्बया पातु वः // 54 // ' अत्र स्त्रीपुंसाकृतीति विरुद्धजातियोजना, नाभिष्टौति न निन्दतीति विरुद्धक्रियायोजना, रम्योग्रमिति विरुद्धगुणयोजना, मुखे वपु-रीक्षामहे इति विरुद्धद्रव्ययोजना च लक्ष्यते // .