________________ 2 परिच्छेदः / सरस्वतीकण्ठाभरणम् / योगेति / योगेत्यादौ द्वन्द्वपरवर्ती परम्पराशब्दः प्रत्येकमन्वीयते। योगो योगरूढिः / कारणं कार्यकारणभावः / निरूढाः प्रमिताः / पदसिद्धये पदसमुदायात्मकवाक्यैकदेशतासिद्धये // यद्यपि पदानामर्थद्वारक एव संबन्धः, तथापि तदोपयिकविशेषः क्वचित्पदेष्वेव साक्षादवसीयते क्वचित्पदार्थेष्वित्यभिप्रेत्याह - विरुद्धानां पदार्थानां जात्यादीनां परस्परम् / .. योजना येह तां युक्तिं पदार्थविषयां विदुः॥४७॥ . विरुद्धानामिति / एवं वाक्यवाक्यार्थयोरपि वाक्यमध्यवर्तिप्रकृतरसानुगुणरससमर्पकं वाक्यान्तरम् // गर्भः सह निगर्भेण संवृत्तिः ससमुच्चया। .. हेतवो वाक्ययुक्तीनां क्रियतामेवमादयः // 48 // -- गर्भ इति / गर्भस्तस्यैकदेशभूतस्तथाभूतो निगर्भः / उक्तरुपसंहारवचनं संवृत्तिः। तुल्यप्रधानभावानां युगपदेकार्थसंबन्धः समुच्चयः / आदिपदादन्वाचयादयः // ___ यत्तदादेरुपादानं क्रियाभ्याससमुच्चयो / क्रियासमभिहारश्च वाक्यार्थान्युज्यते मिथः // 49 // यत्तदादेरिति / यत्तदोरुद्देश्यविधेयगामिनोरादिग्रहणादिदमेतदासां क्रियाणामावृत्तिरभ्यासः / विजातीयानामेकदैकत्र संबन्धः समुच्चयः / समभिहारो भृशत्वं प्रकर्ष दाते यावत् // यदश्रद्धेयशैलादिवर्णनाभ्युपपत्तये / वाक्यं सेह प्रकरण विषया युक्तिरिष्यते // 50 // यदिति / अतिमात्रतया प्रतिभासमानत्वमश्रद्धेयता // - प्रबन्धविषयाप्येवं युक्तिरुक्ता मनीषिभिः। ... उदाहरणमालासां रूपव्यक्त्यै निदर्यते // 51 // - तदेतासां युक्तीनामतिदुरूहत्वादाह-उदाहरणमेवेति // 1. 'उदाहरणमेवासाम्' इति पाठष्टीकासंमतः.