________________ 172 . काव्यमाला / परिसंख्योक्तिर्यथा 'पञ्च पञ्चनखा भक्ष्या वामेनाक्ष्णा न पश्यति / काठिन्यमस्याः कुचयोः किमसद्यन्न रोचते // 52 // ' तदिदं विधिनिषेधाभ्यां शेषाभ्यनुज्ञानं परिसंख्येत्युच्यते // पञ्च पञ्चेति / पञ्चनखेषु पञ्च भक्ष्या नान्ये / कुचयोरस्याः काठिन्यं न वचनादाविति विशेषविधी शेषनिषेधमनुजानीतः। वामेन न पश्यति दक्षिणेन तु पश्यत्येव / किमसत्किमशोभनम् ? यद्यस्मै न रोचते इतरत्तु सदेवेति विशेषनिषेधौ शेषविध्यभ्यनुज्ञाविषयाविति // . अयुज्यमानस्य मिथःशब्दस्यार्थस्य वा पुनः / योजना क्रियते यासौ युक्तिरित्युच्यते बुधैः // 44 // __ अयुज्यमानस्येति / पूर्व पदैकवाक्यता ततो वाक्यैकवाक्यत्वमनन्तरं प्रकरणैकवाक्यत्वमिति प्रबन्धनिर्वहणं यावत्कविव्यापारः। तत्र 'गामभ्याज शुक्लां दण्डेन' इत्यादीनां लोके गृहीतव्युत्पत्तीनामेव यद्यपि काव्यानुप्रवेशस्तथापि भङ्गीभणितिसनाथान्येव काव्यपद्धतिमध्यासत इत्यप्रहतानामुपादेयत्वे यत्रापाततः परस्परमन्वयो न प्रतिभासते तत्रावश्यं कविना खाभिप्रायप्रतिच्छन्दकभूतविशेषनिवेशनेन विवक्षितवाक्यार्थप्रतीत्यस्खलनं विधेयम् , अत एव वैचित्र्यादलंकारता। तदिदमुक्तम् -अयुज्यमानस्येति / आपातत इति शेषः / योजना अन्वयौपयिकरजकविशेषनिवेशनं तस्य विषयः / शब्दाथा शब्दः पदं वाक्यं प्रकरणं प्रबन्धः / अर्थः पदार्थो वाक्यार्थश्च // . विषयभेदात् षोढा युक्तिरित्याह पदं चैव पदार्थश्च वाक्यं वाक्यार्थ एव च / विषयोऽस्याः प्रकरणं प्रबन्धश्चाभिधीयते // 45 // . पदं चैवेति // . तत्र. योगकारणपर्यायाङ्गाङ्गिभावपरम्पराः।. पदयुक्तर्निमित्तं स्युनिरूढाः पदसिद्धये // 46 // ..