________________ * 2 परिच्छेदः।] सरस्वतीकण्ठाभरणम् / 171 अत्र प्राप्तौ निवारणं निषेधः // प्राप्तौ निवारणमिति / रोषेण प्रसजत्प्रतीपाचरणान्निवार्यते // अधिकारोक्तिर्यथा'भूयिष्ठं भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी ___ यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः // 49 // ' अत्र विधिनिषेधज्ञानाद्विधिनिषेधयोग्यताधिकारः // विधिनिषेधज्ञानादिति / विहितनिषिद्धक्रियाज्ञानेन तत्फलसंबन्धयोग्यत्वमधिकारः। शुश्रूपम्वति, भूयिष्टं भव दक्षिणेति द्वे विहिते। मा स्म प्रतीपं गम इति, भोगेष्वनुत्से किनीति द्वे निषिद्धे / विधिनिषेधयोग्यता विधिनिषेधफलसंबन्धयोग्यत्वम्। गृहिणीपदप्राप्तिर्विहितक्रियाफलम्। कुलाधीभवनं तु निषिद्धक्रियाफलमिति॥ विकल्पोक्तिर्यथा"एको नेता क्षत्रियो वा द्विजो वा एका विद्याध्यात्मिकी वा त्रयी वा। एका भार्या वंशजा वा प्रिया वा एकं मित्रं भूपतिर्वा यति // 50 // सोऽयं जातिक्रियागुणद्रव्यावलम्बी चतुर्विधो विकल्पः // सोऽयमिति / जाल्यादय एव पदार्थास्ते च विकल्पन्ते। कुतो जात्यादिना तद्यवस्था / वाद: पाक्षिकभावमाहेति भावाभावसंकरः // . नियमोतिर्यथा-- 'विवादोऽपार्थ एवायं पार्थ एव धनुर्धरः। यो न केवलमात्मीयैः परैरप्यभिनन्द्यते // 51 // सोऽयमयोगान्ययोगात्यन्तायोगव्यवच्छेदलक्षणस्त्रिप्रकारो नियमः॥ अपार्थ एवेति / विशेषणसंगत एवकारः केवलविशेषणयोगस्यासंभवे व्युत्पत्तिवशेन तदभावं व्यवच्छिन्दन्योगव्यावृत्ताववतिष्ठते। पार्थ एवेति विशेष्यसंगत एवशब्दस्तदन्यस्य धनुर्धरतारूपं विशेषणं व्यावर्तयन्नन्ययोगव्यवच्छेदद्योतको भवति। केवलमिति अभिनन्दनस्य नायोगं नवान्ययोगं व्यवच्छिनत्ति, किंतु तत्संबन्धं बोधयन्नात्यन्तिकमयोगमत्यन्तायोगव्यवच्छेदोऽभिधीयते॥