________________ * 2 परिच्छेदः / सरखतीकण्ठाभरणम् / विकरणः / आत्मनेपदपरस्मैपदयोरेकान्तरितो निवेशः। श्रिय इति प्रकृतिभागे इयडादेशो विकारो विभक्तावपि विकारः / विपद इति प्रकृतिरविकृता / विभक्तिस्तु रुत्वेन विकृता / यशांसीति द्वे अपि विकृते / मलिनमिति वैकल्पिकपरसवर्णविधौ द्वयमविकृतम् / संस्कारशौचेनेति प्रकृतिरविकृता / प्रत्ययस्त्विनादेशेन विकृतः / तथा श्रिय इति माङ्गल्यम् , विपद इति विपरीतमिति क्रमेण शुद्धा बुद्धिः कामधेनुरिति / मङ्गलपरम्परानिवेशनेनोपसंहारश्चित्रांशुकोज्वल इव प्रतिभासमानो नु बिम्बमिव कामपि कान्तिमभिव्यञ्जयत्तूपलक्ष्यते / मङ्गलामङ्गलार्थपदपरवेनेति / मङ्गलामङ्गलेभ्यः पदेभ्यः परवर्तित्वेनेत्यर्थः // वचनमुद्रा यथा'विश्वंभरा भगवती भवतीमसूत राजा प्रजापतिसमो जनकः पिता ते / तेषां वधूम्त्वमसि नन्दिनि पार्थिवानां / येषां कुलेषु सविता च गुरुवयं च // 46 // ' अत्र वयमित्यात्मनि बहुवचनेन सविता चेति सवितर्येकवचनेन सवितुरप्यहं बहुमत इत्यभिप्रायो वक्तुरितीयं वचनमुद्रा // विश्वंभरेति / अहंकारप्ररोहस्य पूर्व गुणप्रयोजकत्वमुक्तम् / इह तु कवेरभिप्रायविशेषस्यालंकार घटकसेति विभागः // समुच्चयमुद्रा यथा--- _ 'जातश्चायं मुखेन्दुस्ते भृकुटिप्रणयी पुरः / गतं च वसुदेवस्य कुलं नामावशेषताम् // 47 // ' अत्र ‘आशंसायां भूतवच्च' (3 / 3 / 132) इति भूतवद्भावस्य हयग्रीवप्रभावातिशयशंसिनः समुच्चयद्वारेण निवेशादियं समुच्चयमुद्रा // अत्राशंसायामिति / गतमिति निष्ठाप्रत्ययेन भूतताद्योतनादाशंसाप्रतीतावपि 'कथं प्रकृतपोष इत्यत उक्तम्-समुच्चयद्वारेणेति / तेन हि तुल्यकक्षताप्रतीतौ त्वं चेदङ्गीकृतरोषस्तदा सिद्धमेव समीहितमिति वक्तुरध्यवसायविशेषप्रतीतौ समुच्चय एव मुद्रापदवीमारोहतीति / शेषं सुबोधम् //