________________ 168 काव्यमाला / . पूर्ववाक्योपकारित्वेनेति / देवे पीयूषाकृति तत्त्वान्तरं तिग्मं धाम चकास्तीति च यदगाधतया तर्कितमिति किलशब्दकटाक्षितमभिधानम् / तत्र किं संबन्धमित्याकाङ्क्षाविपूरकं तत्रास्तीत्यादि वाक्यम् / तथा हि-'य एष आदित्यपथं व्याप्य पुरुषो दीप्यते' इत्याद्युपनिषदर्थनिवेशनमभिप्रायपूर्वकमाभासते। एतेनान्येऽपि वाक्यप्रकाश्यप्रकाराः परिगृहीता बोद्धव्याः / पूर्व वाक्येऽन्तर्भावितद्वित्वमवसेयमिति // विभक्तिमुद्रा यथा'श्रियः प्रदुग्धे विपदो रुणद्धि यशांसि सूते मलिनं प्रमार्टि / संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः किल कामधेनुः // 45 // ' अत्र प्रदुग्धे, रुणद्धि, सूते, प्रमार्टि, पुनीते, इति तिड्विभक्तीनां 'दुहिपच्योर्बहुलं सकर्मकयोरुपसंख्यानम्' (3 / 1 / 87 वा०), 'रुधादिभ्यः श्नम्' (3 / 1 / 78) इत्यादिभिर्विशेषलक्षणयोगैः परस्मैपदात्मनेपदपर्यायेण निवेशो दृश्यते / श्रियः, विपदः, यशांसि, मलिनं संस्कारशौचेन, इति च सुब्विभक्तीनाम् 'अचि नुधातुध्रुवां य्वोरियङवङौ' (6 / 4 / 77) इत्यादिविशेषलक्षणवतीनामविकृतविकृतानां मङ्गलामङ्गलार्थपरत्वेन मङ्गलाद्यर्थानामभिप्रायतः प्रयोगो लक्ष्यते। तेनेयं विभक्तिमुद्रा भवति // श्रिय इति। बुद्धिरूपा कामधेनुः श्रियः प्रथयतीत्युक्ते न तथा प्रकर्षः, यथोक्ते तु विशिष्टः कवेरभिप्राय उन्नीयते। तथा हि-यथोदुम्बरः स लोहितं फलं पच्यत इति कर्मकर्तरि फलोदुम्बरयोरैकात्म्यमवसीयते तथेहापि श्रीरूपमात्मानं. बुद्धिः प्रकाशयतीति / अत एव हि 'दुहिपच्योबहुलं सकर्मकयोः' ( वा 3.1187) इति बाह्यकर्मविशिष्टस्यैव कर्तुः कर्मवद्भावः शिष्यते / 'न दुहस्नुनमां यक्चिणौ' (3 / 1 / 89) इति यगभावोऽपि विशेषाभिप्रायनियत एव रुणद्धीत्यागमरूपः / सूते इति लुप्तः / प्रमाष्र्टीति वृद्धियोजकः / पुनीते इति खरूपेण विकृतश्च 1. लक्षणवतीनां योगैः' क. 2. 'लक्षणवतीनां योगैः'.क. 3. 'पदपरत्वेन' इति टीकासंमतः पाठः. 4. 'मङ्गलार्थानाम्' क.