________________ * 2 परिच्छेदः / सरस्वतीकण्ठाभरणम् / संगीतस्य च मत्तकोकिलरुतान्युच्छिष्टमेणीदृशः __सर्वाङ्गीणमहो विधेः परिणतं विज्ञानचित्रं चिरात् // 43 // अत्र निर्माल्यं, दासः, सनाभि, अञ्चलः, उच्छिष्टमिति पदानां गौणवृत्तिव्यपाश्रयेण मुत्प्रदायिनां साभिप्रायनिवेशादियं पदमुद्रा // गौणवृत्तिव्यपाश्रयेणेति / निर्माल्यादिपदानामत्यन्ततिरस्कृतवाच्यानामतिविच्छायत्वादिलक्षणाद्वारेण लावण्यविशेषध्वननात्सहृदयहृदयावर्जकानां निवेशो दृश्यते। एवम् 'ताला जाअन्ति गुणा जाला ते सहिअएहि धेय्यन्ति / रविकिरणाणुग्गहिआ होन्ति कमलाइँ कमलाइँ॥' तथा 'अमृतममृतं चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं रतिरपि रतिः कामः कामो मधूनि मधून्यपि / ' इत्यादावर्थान्तरसंक्रमणादिना तत्प्रकाश्यो ध्वनिरनुसंधेयः // वाक्यमुद्रा यथा'यत्वच्छे सलिलात्मनि प्रतिफलद्देवे त्रियामापतौ ___ पीयूयाकृति पर्यवस्यति किल ज्योत्स्नेति तत्त्वान्तरम् / तिग्मं धाम चिरं चकास्ति दिवि नत्तत्रास्ति दिव्यः पुमा न्यं विज्ञातवतां त्रुटन्ति निखिला भूयो भवग्रन्थयः / / 44 // ' अत्र 'तत्रास्ति दिव्यः पुमान्' इत्यादेर्वाक्यान्तरस्य पूर्ववाक्योपकारित्वेन मुत्प्रदायकस्याभिप्रायपूर्वनिवेशादियं वाक्यमुद्रा // यत्स्वच्छ इति / आदित्यकला एव प्रति फलिताश्चन्द्रव्यपदेशं लभन्त इत्यागमः / तदाह 'सलिलमये शशिनि रवेदींधितयो मूर्च्छितास्तमो नैशम् / दलयन्ति दर्पणोदरविहता इव मन्दिरस्यान्तः // ' इति /