________________ काव्यमाला / सेयमुत्तमपदारोपितनीचयुवत्युक्तेस्नुकृतिः पोटोक्तिच्छाया // उत्तमपदस्थानीययुवतिमनुकुर्वाणा उत्तमपदारोपितनीचंयुवतिः // . . मत्तोक्तिच्छाया यथा'पि पि प्रिय स स स्वयं मु मु मुखासवं देहि मे त त त्यज दु दु द्रुतं भ भ भ भाजनं काञ्चनम् / इति स्खलितजल्पितं मदवशात्कुरङ्गीदृशः __ प्रगे हसितहेतवे सहचरी भिरध्यैयत // 42 // " सेयं स्खलन्त्या मत्तोक्तेरनुकृतिमत्तोक्तिच्छाया // पि पि प्रियेति / अव्यक्तवृत्तिरूपं स्खलितजल्पितम् // साभिप्रायस्य वाक्ये यद्वचसो विनिवेशनम् / मुद्रां तां मुत्प्रदायित्वात्काव्यमुद्राविदो विदुः॥४०॥ साभिप्रायेति / यद्यपि संपूर्णमेव काव्यं वऋभिप्रायप्रतिच्छन्दकभूतम् , उक्तं च-'वऋभिप्रायं सूचयेयुः' इति, तथापि नास्मिन्नितरसाधारणतया वाक्यार्थगोचरमभिप्रायमावेदयत्येव काव्यसनाथीकरणक्षमवक्रभिप्रायविशेषप्रतिरूपक एकदेशनिवेशो दृश्यते / अत एवाङ्गुलीयादिमुद्रेव मुद्रेत्युच्यते। निरुक्तिमाह-मुत्प्रदायित्वादिति / मुद्युपपदे रातेर्दानकर्मणः के रूपम् / मुदैव पदादिप्रकाश्यध्वनिव्यवहारभूमिरन्येषाम् // सासिन्पदस्य वाक्यस्य विभक्तेर्वचनस्य च / समुच्चयस्य संवृत्या षोढा न्यासेन जायते // 41 // सास्मिन्निति / पदं प्रातिपदिकं कृत्तद्धितसमासरूपम् / विभक्तिवचनयोः सामान्यविशेषभावेऽपि पृथक्पृथगभिप्रायव्यञ्जकतया निर्देशः / आस्तामिलादिवचनसंकोचः संवृतिः // तासु पदमुद्रा यथा'निर्माल्यं नयनश्रियः कुवलयं वक्रस्य दासः शशी भ्रूयुग्मस्य सनाभि मन्मथधनुज्योत्स्ना स्मितस्याञ्चलः /