________________ * 2 परिच्छेदः। सरस्वतीकण्ठाभरणम् / विताध्यक्सायाभिप्रायः प्रवासविप्रलम्भाविष्टचेतसः प्रकाशितो भवतीति / उपलक्षणं चैतत् / वर्षाकाले चतुरो मासानित्यपि लोकोक्तिरेव // * छेकोक्तिच्छाया यथा 'यो हि दीर्घासिताक्षस्य विलासललिनभ्रुणः / कान्तामुखस्यावशगस्तस्मै नृपशवे नमः // 38 // ' / सेयं तस्मै नृपशवे नम इति विदग्धोक्तेरनुकृतिश्छेकोक्तिच्छाया // यो हीति / कान्तामुखमेव जीवितसर्वखमभिमन्यमानस्तत्रालंप्रत्ययशालिनः पशूनिव प्रति शृङ्गारी विदग्धः॥ अर्भकोक्तिच्छाया यथा_ 'किं स खर्गतरुः कोऽपि यस्य पुष्पं निशाकरः / ते वृक्षाः कीदृशा मातर्येषां मुक्ताफलं फलम् / / 39 // ' / सेयमव्युत्पन्नशिशुजनोक्तेरनुकृतिरभकोक्तिच्छाया // .... किं स इति / नूनं त्रिजगद्वतिसकलार्थिसार्थकीकरणविख्यातकीर्तेः पारिआतप्रमुखस्य कस्यचिदेकः स्तबकः सुधाभिराह्लादयन्नयमवलोके दृश्यत इत्यादि // . उन्मत्तोक्तिच्छाया यथा 'दृष्टः कथं सुतनु किं कुरुते किमस्म___ द्वार्ता स पृच्छति शृणोति निवेद्यमानाम् / आस्तां किमस्य कथया कथयाशु ताव दत्रागमिष्यति न वा खलु सोऽभिमानी // 40 // ' सेयमसमञ्जसाया उन्मत्तोक्तेरनुकृतिरुन्मत्तोक्तिच्छाया // .. दृष्ट इति / कथमित्यादिना तदेकतानतामाविष्कृत्य सहसैवास्तामित्यादिना संप्रहाणम्, कथय तावदित्यादिना च पुनरादानमसमञ्जसम् // पोटोक्तिच्छाया यथा'तिलकमसहास्मि सोढुं घनसारेणातिसारदोषो मे / लम्भयति च दौर्बल्यं कुङ्कुमरागो ममाङ्गानि // 41 // ' 1. 'आसां' ख. 2. 'सारो' ख. .