________________ 164 काव्यमाला. .. गर्भग्रन्थिषु पञ्चषाः सुमनसो बध्नन्ति चूतद्रुमाः , * संप्राप्ताः प्रकटीभवन्ति कुररीकण्ठेषु कूजोर्मयः // ' अत्र काव्यचतुष्कादुच्छिद्य पादचतुष्टयं ग्रथितमिति खण्डसंघात्यनांमायं योनिजकाव्यभेदः // तावन्तमर्थमुपादायाधिको वापश्चूलिका / यथा _ 'कमलमनम्भसि तत्र च कुवलयमेतानि कनकलतिकायाम् / - सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् // ' यथा च 'उभौ रम्भास्तम्भावुपरि विपरीतौ कमलयो. - स्तदूर्ध्वं रत्नाश्मस्थलमपि दुरूहं किमपि यत् / ....., ततः कुम्भौ पश्चाद्विसकिसलये कन्दलमथो . तदन्विन्दाविन्दीवरमधुकराः किं पुनरिदम् // ' अत्र स्थाने स्थानेऽधिकावापस्य प्रत्यभिज्ञानालिकानामायं योनिजकाव्यभेदः॥ बन्धच्छायामात्रसंवादी परिमलः। यथा 'अनेन यूना सह पार्थिवेन रम्भोरु कचिन्मनसो रुचिस्ते / सिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यांनपरम्परासु // ' यथा च 'यात्राप्रसङ्गादुपवीणयन्ती तस्यां महाकालमविप्रतिष्टम् / कृशाङ्गि वीणागुणसारणासु चिरात्कलाभ्यासफलं लभेथाः // ' अत्र संदर्भच्छायामात्रमनुकृतमिति परिमलनामायं योनिजकाव्यभेदः // तासु लोकोक्तिच्छाया यथा'शापान्तो मे भुजगशयनादुत्थिते शाङ्गपाणौ मासानेतान्गमय चतुरो लोचने मीलयित्वा / पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु // 37 // ' . सेयं लोचने मीलयित्वेति लोकोक्तेरनुकृतिर्लोकोक्तिच्छाया // . शापान्त इति / लोचने मीलयित्वेत्यनेन लोकोंक्त्यनुकारेण नयननिमीलनवदाशुभाविता समागमसमयस्य प्रतिपाद्यते / तथा च-सुकुमारतरकान्ताजी