________________ * 2 परिच्छेदः / ] सरखतीकण्ठाभरणम् / 163 अन्योक्तीनामनुकृतिश्छाया सापीह पड़िधा। लोकच्छेकाकोन्मत्तपोटामत्तोक्तिभेदतः // 39 // अन्योक्तीनामिति / लोके बिम्बप्रतिबिम्बयोः प्रतिबिम्बं चमत्कारितया प्रसिद्धम् / अत एव 'श्रव्यात्प्रेक्ष्यं ज्यायः' इत्याह / शब्दालंकारकाण्डे वाक्यानुकरणमेव प्रतिबिम्बवाचिना छायापदेन गुणवृत्तेनाख्यायते / तदेतदनुकरणमनुकार्यभेदादेव षोढा व्यवतिष्ठत इत्याह-छेकेति / छेकादीनां लोकविशेषाणामेव शोभाकारित्वेन पृथगुपादानेऽर्थात्तदितरानेकविचित्रतत्तदनुकार्यपरो लोकशब्दः। छेका विदग्धाः / 'पोटा स्त्रीपुंसलक्षणा' / सहजकेलिरिति प्रसिद्धा पोटा / भुजिष्या दासीत्यन्ये / अत्र केचिदन्यच्छायायोनिजमपि काव्यं छायालंकारव्यवहारभूमिमाहुः। - प्रकृतिपरिणामः, परपुरप्रवेशः, खण्डसंघात्यम् , चूलिका, परिमल इति पश्च योनिजकाव्यभेदाः / तत्र किंचिद्विकृतार्थः प्रकृतिपरिणामः / यथा. 'धुअमेहं महुअरानुव्वणसमअहियओ णअविमुक्काओ / णहया अवसाहाओ णिअ अव्वाण वयडि गआओ दिसाओ // ' यथा च 'सिसिरपडिरोहमुक्कपरिहुत्तम्पअ अवलिअक्कम् / इहरइ अरया अलिअं वित्थरदि दिसाहिं कट्ठिवणहअलम् // ' अत्राकाशदिशां विस्तारभणनं मनाग्विकृतमुपलक्ष्यत इति प्रकृतिपरिणामनामायं योनिजकाव्यभेदः // भाषामात्र भिन्नः परपुरप्रवेशः। यथा 'देवाधिपो वा भुजगाधिपो वा धराधिपो वा यदि हैहयः स्याम् / संदर्शनं ते गुणकीर्तनं ते सेवाञ्जलिं ते तदहं विदध्याम् // ' यथा च• 'सविमो अणज्जुणमिअं अमहिन्दमवामुइअ अप्पाणम् / सेडं जालदंसण गुणकहामुत इजणूपज्जत्तम् // ' अन भाषामात्रं भिन्नमिति परपुरप्रवेशनामायं योनिजकाव्यभेदः // विकीर्णमसमाहारः खण्डसंघात्यम् / यथा'द्वित्राण्यम्बुजिनीदलानि सरसामुत्सङ्गमध्यासते मौलौ किंशुकशाखिनस्त्रिचतुरानाबिभ्रते कोरकान् /