________________ 162 काव्यमाला उत्तिष्ठन्त्या इति / सर्वाङ्गीणाश्लेषसमुत्सुके प्रियतमे बहिर्व्यावर्तनमन्तरनुवर्तनं च मुग्धाङ्गनाजातिरिति न्यायेन नीवीबन्धकेशपाशसंयमार्थिन्या निर्भरकेलिखेदेन भुजलतालसं लसत्येव न तु व्यापारयितुमपि शक्येति तत्कालिकोऽतिपोषः / अत्र मसृणेऽपि रसे वृत्त्यौचित्येन संदर्भस्य प्रौढिरुचितैव / दीर्घसमासो हि शृङ्गारादौ निषिद्धो न तु प्रौढिः / रेफहकारादिवर्णनिवेशात्तु कोमलता संदभस्येति / एवमुत्तरोदाहरणेष्वपि विशेषः खयमूहनीय इति // - सात्त्वती यथा'वन्द्यौ द्वावपि तावनार्यचरितप्राप्तप्रतापोदयौ भीमो भीमपराक्रमः स च मुनि खत्कुठारायुधः / / एकेनामृतवद्विदार्य करंजैः पीतान्यसृञ्जि द्विषा मन्येनापि हताहितास्रसरसि स्नातं क्रुधः शान्तये // 34 // ' सेयं प्रौढार्था नातिप्रौढसंदर्भा सात्वती नाम वृत्तिः। मध्यमकैशिकी यथा- . 'किं द्वारि दैवहतके सहकारकेण संवर्धितेन विषपादप एष पापः / अस्मिन्मनागपि विकासविकारभाजि __ भीमा भवन्ति मदनज्वरसंनिपाताः // 35 // ' सेयं सुकुमारेऽर्थे प्रौढसंदर्भा मध्यमकैशिकी नाम वृत्तिः // मध्यमारभटी यथा 'त्वं नागराज बहुमस्य नितम्बभागं ... भोगेन गाढमुपवेष्टय मन्दराद्रेः / सोढाऽविषयवृषवाहनयोगलीला पर्यङ्कबन्धनविधेस्तव कोऽतिभारः // 36 // " सेयं प्रौदेऽर्थे सुकुमारसंदर्भा मध्यमारभटी नाम वृत्तिः // 1. 'आम्रचूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः. .