________________ '2 परिच्छेदः / ] सरखतीकण्ठाभरणम् / 161 तत्र कैशिकी यथा- 'शशिरुचिषु दलेषु नागवल्या विचकिलदामनि चन्दने च हृद्ये / कुवलयिनि पुराणसीधुपाने तरलदृशामपतन्दृशः प्रिये च // 31 // ' सेयमर्थस्य च संदर्भस्य च सौकुमार्यात्कैशिकी नाम वृत्तिः // शशिरुचिष्विति / नियमितादिषु मुग्धाङ्गनाचुम्बनरसोत्सुकानामतिमनोज्ञाधररागसमर्पकेषु नागलतादलेषु, ततो मानपरिग्रहे वलितकादिचुम्बनविशेषार्थिनीनां कचग्रहसौभाग्यसुन्दरे मल्लिकादान्नि, ततः सर्वाङ्गीणाश्लेषसौभाग्यार्थकचन्दनरसेऽनन्तरमीारोषवासनानिःशेषकेलियन्त्रणरतोत्कण्ठितानां सीधुपात्रे, ततः सर्वोपकरणजीवितसर्वस्खे प्रियतमे समकक्षतयैव दृष्टयः पेतुरिति / 'कुवलयिनि' इति युक्तः पाठः / 'कुवलयित-' इति पाठे विशेषणाङ्गप्राधान्यविवक्षायां समासे गुणीभावस्यानुचितत्वात् / सेयं कैशिकी मसृणे शृङ्गारादौ विनियुज्यत इति // आरभटी यथा'यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां ___यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा / यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः _क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम् // 32 // ' सेयं प्रौढार्थसंदर्भारंभटी नाम वृत्तिः // यो य इति / ओजःप्रधानतया प्रौढः संदर्भः / यस्मादियमारभटी दीप्ते रौद्रादौ विनियुक्ता, तेन युक्तं शब्दार्थयोः प्रौढत्वमिति // भारती यथा'उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा * धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः / भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः .. * शय्यामालिङ्गय नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु // 33 // ' सेयमतिसुकुमारार्थे नातिसुकुमारसंदर्भा भारती नाम वृत्तिः // 1. 'मदात् पा' इति पाठः. 11 स० क.