________________ 160 काव्यमाला / शृङ्गारस्तदाभासोऽपि तामेव भूमिकामालम्बते / अत एव शुक्तिरजतवद्भावोदयेऽपि दोषमहिनैव काव्यमहिना तयञ्जनात् / तत्समानभूमिकया हास्यो रसः प्रादुर्भवतीत्यभिसंधायाह-'शृङ्गाराद्धि भवेद्धास्यम्' इति भरतमुनिः / तेन विकासभूमिको शृङ्गारहास्यो / विकासात्प्रच्युतमप्राप्तगुणान्तरप्रादुर्भावं विक्षिप्तं चित्तमुच्यते। तत्रोचितविभावादिवैचित्र्यादाविर्भवद्रजोगुणस्य चेतसो विक्षेपप्रच्युतिदशायां रौद्ररसोन्मेषः / अत एव समानभूमिकया 'रौद्राच्च करुणो रसः' इत्याह / यदा तु सत्त्वतमोनिमीलनेन केवलरजःप्रतिष्ठं चेतस्तदा बहुमुखव्यापारोन्मेषाद्विस्तराख्यामवस्थामासादयति / तद्भूमिको वीररसस्तदवस्थामेवास्थायाद्भुतोऽपि प्रथत इति 'वीराच्चैवाद्भुतोत्पत्तिः' इत्युक्तम् / न्यग्भूतरजोगुणस्य प्रबुद्धतमसश्चेतसोऽवस्थाविशेषः ससंकोचस्तमालम्ब्य बीभत्सः प्रादुरास्ते तदेकभूमिकश्च भयानक इति 'बीभत्साच्च भयानकः' इत्याह // तेऽमी चत्वारश्चित्तावस्थाविशेषाः कथमविशेषणादेव संदर्भाद्भवन्तीत्याशय विभागेनोत्तरमाह कैशिक्यारभटी चैव भारती सात्वती परा / मध्यमारभटी चैव तथा मध्यमकैशिकी // 35 // कैशिक्येति / शुद्धिसंकराभ्यां रीतिवदत्रापि षट् प्रकाराः // सुकुमारार्थसंदर्भा कैशिकी तासु कथ्यते / या तु प्रौढार्थसंदर्भा वृत्तिरारभटीति सा // 36 // .. कोमलप्रौढसंदर्भा कोमलार्थाथ भारती / प्रौढार्था कोमलप्रौढसंदर्भा सात्वती विदुः // 37 // कोमले प्रौढसंदर्भा त्वर्थे मध्यमकैशिकी / प्रौढार्था कोमले बन्धे मध्यमारभटीष्यते // 38 // * सुकुमारेति / चित्तद्रुतिकारित्वं सौकुमार्य सुकुमारावर्थसंदर्भो यस्यामिति विग्रहः / एवं प्रौढार्थसंदर्भेल्यपि / चित्तदीप्तिविधायिता प्रौढिः / अर्थसौकुमार्यादिना विशेष्यमाणसंदर्भः सुकुमारत्वादिः शब्दालंकारतां प्रयोजयति / कोमलप्रौढो मध्यमः / प्रकारान्तरविरहाच्च मध्यमभारत्यादयो न संभवन्ति // 1. 'सात्वती भारती तथा' क.