________________ * 2 परिच्छेदः / सरस्वतीकण्ठाभरणम् / " सेयं समस्तरीतिमिश्रा लाटीया नाम रीतिः // 6. अयमिति / मुद्राभञ्जन इति द्वाभ्यां समस्ताभ्यामावन्ती / उदयगिरीत्यादिना पञ्चकेन पाञ्चाली / प्रौढिप्रकर्षेण गौडीया / अयसुदयतीत्याद्यसमासेन वैदर्भी च प्रत्यभिज्ञायत इति पूर्वोक्तसमस्तरीतिसंभेद इति // मागधी यथा'करिकवलनशिष्टैः शाकशाखाप्रपत्र ररुणसरणयोऽमी सर्वतो भीषयन्ते / चलितशबरसेनादत्तगोशृङ्गचण्ड ध्वनिचकितवराहव्याकुला विन्ध्यपादाः // 30 // ' सेयमारब्धरीतेरनिर्वाहात्खण्डरीतिर्मागधी / -- करिकवलनेति / अत्र पूर्वार्धे यथोक्तामावन्तीमुपक्रम्य चरमार्थे गौडीयापरिग्रहादुपक्रान्तरीतेरनिर्वाहः खण्डनम् , तथापि च न च्छायावैरूप्यमिति कविशक्तिव्यञ्जकत्वादलंकारभाव इति / शाको वृक्षविशेषः // या विकासेऽथ विक्षेप संकोचे विस्तरे तथा। .... चेतसो वर्तयित्री स्यात्सा वृत्तिः सापि षड्डिधा // 34 // . या विकास इति / वृत्तिर्वर्तनं रसविषयो व्यापारः काव्यस्य रसप्रवणत्वात् / स च व्यापारः सत्त्वाछुद्रेकलक्षणो जन्मान्तरानुभवभावितवासनासमुत्थः परिपूर्णीभविष्यद्रसास्वादसर्वस्वायमानचित्तावस्थनिदानभूतोऽर्थगतः पञ्चमेऽभिधास्यते / शब्दगतः पुनरत्र संगतः संदर्भस्य रसप्रकाशकारणेषु प्रधानत्वात् / यदाह 'कविवागभिनेयश्च तदुपायो द्विधेष्यते। .. वस्तुशक्तिमहिना तु प्रथमोऽत्र विशिष्यते // ' वर्ततेऽनया चित्तमिति करणसाधनोऽयं वृत्तिशब्द इति वर्तयित्रीत्यनेन प्रयोजकव्यापारप्रधानेन दर्शितम् / तत्र विषयवैचित्र्याद्विकासाद्याश्चतस्रश्चित्तावस्थाः / विषयो हि दीप्तमसृणमध्यमभेदेन त्रिविधः / विभावाद्युपधानमहिना तन्मयीभवनयोग्यं हि चेतः कदाचिद्विकसति / सत्त्वाविर्भावो विकासः।न्यग्भूतरजस्तमोगुणं हिं चेतः सत्त्वोद्रेकप्रकाशानन्दमयसंविद्विश्रान्तिमासादयति / ततः सत्त्वभागप्रतिष्ठितः 1. 'शाखि' ख.