________________ उदयपुरप्रशस्ताविव'चेदीश्वरेन्द्ररथतोग्गलभीममुख्यान् कर्णाटलाटपतिगुर्जरराट्तुरुष्कान् / / यद्धृत्यमात्रविजितानवलोक्य मौला दोष्णां बलानि कलयन्ति न योद्धृलोकान् // .. केदाररामेश्वरसोमनाथसुण्डीरकालानलरुद्रसत्कैः। .. सुराश्रयैर्व्याप्य च यः समन्ताद्यथार्थसंज्ञां जगतीं चकार // ' एवमाहिमालयमामलयं च भोजदेवस्य प्रभुत्वं वर्णितम् / परमियान् प्रदेशस्तु नासीद्भोजशासने केवलं मालवदेशस्तत्प्रान्तीयो भूयान् भूभागश्च तदधीन आसीदिति कविकृतैवेयं रचनेत्यनुमीयते / भोजे शासति पृथ्वी चेदीश्वरो गाङ्गेयदेवः कलचूरिवंशीयः कर्णदेवश्च तत्प्रतिद्वन्द्विनावास्ताम् / कर्णदेवश्च भोजजीवनकालं यावत् धाराविजिगीषया युद्धं कुर्वाण आसीत् / अत एव भोजस्यापि कर्णगाङ्गेययोरुपरि पराक्रमः संभाव्यते। इन्द्ररथतोग्गलयोर्विषये न किमपि विदितमद्यापि / भीमो गुर्जरदेशाधिपतिश्चौलुक्यवंशीय आसीत् / तमेव भोजदेवो विजितवानिति वर्णना प्रबन्धचिन्तामणिप्रभृतिग्रन्थेषूपलब्धा। यदा भीमदेवः सिन्धुदेशमाक्रान्तवान् तदानीमेव भोजमन्त्रिणा जैनधर्मावलम्बिना कुलचन्द्रेण भीमदेवराज्यं विजितमथ जयपत्रलेखपूर्वं मालवे परावृत्तम् / एवमेकवारं दुष्कालावसरे भोजदेवेन भीमदेवोपर्याक्रमः कृतस्तदा भीमेन सान्धिविग्रहिकं डामरं संप्रेष्य दण्डं प्रदाय संधिः कृता। परस्परं कलहं कुर्वाणयोर्भोजभीमयोर्नासीत् कदापि शान्तिः / भोजस्यान्तिमसमये चेदीश्वरेण कर्णेन धारोपर्याक्रमणं कृतं तदैव भीमदेवोऽपि तेन कर्णेन सह संपृक्तः / परं विशेषो लाभस्तत्र कर्णस्यैव संजातः। जैनकविना हेमचन्द्रेण खीये घ्याश्रयकाव्ये न किमप्यस्मिन्विषये संलिखितम् / यतो हेमचन्द्राचार्यो गुर्जरदेशीयभूभुजो राजसभायां प्रविष्ट आसीत् / . भोजः कर्णाटदेशीयान् दक्षिणचालुक्यान् पराकान्तवानिति राजवल्लभविरचिताद् भोजचरिजादपि. ज्ञायते / यदा युवावस्थो भोजदेवो राज्यप्रबन्धे संलग्नमना आसीत्तदानीमेकदैकस्टत्समक्षे मुञ्जशिरश्छेदविषयकोऽभिनयोऽभिनीतः। तं दृष्ट्वैव दक्षिणदेशं विजेष्यामीत्युत्कण्ठा तन्मनसि प्रादुर्भूता / आक्रान्तश्च तेन दक्षिणदेशः। तस्मिन् तत्सहायका अप्यासन् पार्श्ववर्तिदेशानामधिपा अन्येऽपि राजानः। भोजशब्दानुसारं