________________ तत्राभूद्वसतिः श्रियामपरया श्रीहर्ष इत्याख्यया विख्यातश्चतुरम्बुराशिरसनादाम्नःप्रशास्ता भुवः। भूपः खर्वितवैरिगर्वगरिमा श्रीसीयकः सायकाः पञ्षोरिव यस्य पौरुषगुणाः केषां न लग्ना हृदि // 41 // तस्योदग्रयशाः समस्तसुभटग्रामाग्रगामी सुतः सिंहो दुर्धरशक्रसिन्धुरततेः श्रीसिन्धुराजोऽभवत्। एकाधिज्यचतुर्जिताब्धिवलयावच्छिन्नभूर्यस्य स श्रीमद्वाक्पतिराजदेवनृपतिर्वीराग्रणीरग्रजः॥४२॥ . आकीर्णाशितलः सरोजकलशच्छत्रादिभिर्लाञ्छनै स्तस्याजायत मांसलायतभुजः श्रीभोज इत्यात्मजः। प्रीत्या योग्य इति प्रतापवसतिः ख्यातेन मुआख्यया यः खे वाक्पतिराजभूमिपतिना राज्येऽभिषिकः स्वयम् 43' * मुजः संस्कृतभाषारसिकः स्वयं च प्रगल्भ आसीदितीतस्ततो वर्तमानैर्वृत्तैर्विदितचरम् / तदुत्तराधिकारी सिन्धुलोऽपि कुमारनारायणापरनामधेयो नवसाहसाङ्कत्वेन परिमलक विग्रन्थे नायकत्वेन वर्णितः। भोजोऽपि वपूर्वपूरुषानुयायी संस्कृतभाषारसिकत्वेन जगत्प्रसिद्धः। अवन्तीपूजयिन्यां विक्रमादित्य इव भोजोऽप्यापामरं प्रसिद्धोऽनेकविधासु च कथासु गीतोऽद्वितीयो जातः / उदयपुरप्रशस्तो 'साधितं विहितं दत्तं ज्ञातं तद् यन्न केनचित् / किमन्यत्कविराजस्य श्रीभोजस्य प्रशस्यते // ' इति भोजप्रशंसापरं पद्यम् / एष एव भोज देवः काश्मीरकक.विविरचिते पृथ्वीराज विज यमहाकाव्ये अगम्यो यो नरेन्द्राणां सुधादीधितिसुन्दरः। जघ्ने यशश्चयो यश्च भोजेनावन्तिभूभुजा // ' वीयरामनाम्ना प्रसिद्धस्य शाकंभरि(सांभर)राज्ञो यशोहारको मारकश्च वर्णितः /