________________ 156 . काव्यमाला / वैदर्भीति। वक्ष्यमाणरीत्या वैदर्भीप्राधान्यमभिप्रेत्याह तत्रासमासा निःशेषश्लेषादिगुणगुम्फिता।. विपञ्चीवरसौभाग्या वैदर्भी रीतिरिष्यते // 29 // तत्रेति / असमासा अनुल्लिखितसमासा / निःशेषश्लेषादीति / श्लेषादयो नव गुणास्तैर्गुम्फिताः / मिथोमिलनेन संमूञ्छितैरनुपलभ्यमानान्यतममात्रकैरपि परस्परविभक्तखरूपभावेन सहृदयहृदयसंवादगोचरैरारब्धा / एवं विपञ्चीखरसौभाग्या / विपञ्ची वाग्रपा सरखती बिम्बप्रतिबिम्बभावेन द्विविधा / प्रतिबिम्बाधिष्ठानतया दादियन्त्रमपि विपञ्चीत्युच्यते / तदीयाः खरास्तन्त्रीकण्ठोत्थिताः स्थानक्रमवैपरीत्यानुमेयशारीराः प्रतिबिम्बभावाः षड्जादयस्तेषु श्रुतसंमूर्च्छनरूपेष्वपि मिथोविभक्ताः श्रुतयः श्रोत्ररजकखरावस्थामापन्नाः समस्तगान्धर्ववित्साक्षिकाः प्रकाशन्ते / अत एव वीणव प्रधानं समस्तस्य खरजातस्य तत्रैव श्रुतिमण्डलोन्मेषादिति // यदा तु पानकादिन्यायेन कश्चिदंश उदितो भवति तदा रीत्यन्तरमुत्तिष्ठतीत्याह समस्तपञ्चषपदामोजाकान्तिविवर्जिताम् / .... मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः // 30 // * समस्तेति / ओजःकान्तिविवर्जिताम् ओजःकान्त्योर्विशेषेण वर्जिताम् / न्यग्भूतौजःकान्तिगुणामिति यावत् / यतस्तत्प्रतिद्वन्द्विनोर्माधुर्यसौकुमार्ययोस्तत्रोद्भवस्तदेतदाह-मधुरां सुकुमारां चेति / अत एवौजःप्रकाशकः षडधिकेषु पदेषु समासो न क्रियते // समस्तात्युद्भटपदामोज कान्तिगुणान्विताम् / गौडीयेति विजानन्ति रीति रीतिविचक्षणाः // 31 // समस्तेति / अत्युद्भटानि सोल्लेखसमासानि यस्मादोजःकान्त्योरुद्भवे न्यग्भूतगुणसप्तकेयं रीतिः // अन्तराले तु पाञ्चालीवैदोर्यावतिष्ठते / सावन्तिका समस्तैः स्यादिस्त्रिचतुरैः पदैः // 32 // अन्तराल इति / माधुर्यसौकुमार्ययोः किंचिदुद्भवेन निमीलनाङ्गप्राधान्येन वान्तरालकल्पना तां व्यनक्ति- द्विवैरिति / द्वे त्रीणि बा त्रीणि चत्वारि वेति चार्थे बहुव्रीहिः // ...