________________ छामरणम् / 157 ' 2 परिच्छेदः।] सरखतीकण्ठाभरणम् / . समस्तरीतिर्व्यामिश्रा लाटीया रीतिरुच्यते / .... - पूर्वरीतेरनिर्वाहे खण्डरीतिस्तु मागधी // 33 // समस्तेति / यद्यप्युपक्रान्तरीत्यनिर्वाहोऽत्राप्यस्ति तथापि तिलतण्डुलवद्यावद्विभक्तरीतिसंवलनस्य कविसंरम्भगोचरस्योत्तररीतेः पृथग्भावः / पूर्वरीतेरिति। एकां रीतिमुपक्रम्य यदन्यया संदर्भनिर्वहणमसावन्य एव प्रकारः / न चानिर्वाहो दोषश्छायावरूप्याभावात् / रीतिखण्डनेऽपि हि संदर्भसौभाग्यसंपत्तिः शक्तिमेवाविष्करोति // .... . .. .. .. .... तासु वैदर्भी यथा'मनीषिताः सन्ति गृहेषु देवतास्तपः क वत्से क च तावकं वपुः / पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः // 25 // ' सेयमसमस्तपदा समग्रश्लेषादिगुणवती वैदर्भी रीतिः / / मनीषिता इति / अत्रं दीर्घसमासाभावे कथमोज इति कस्यचित्कुदेश्यमपरीतिमत्प्रकरण एवेत्यपास्तम् / एतेन गुणनवकस्य समकक्षतया संभेदः क्षण इति / असमस्तपदेत्यनुल्लेखसमासपदेत्यर्थः / समग्रा नव / गुणवतीति नित्ययोगे मतुप् // पाञ्चाली यथा 'गात्राविघातदलिताङ्गदजर्जराणां _ गण्डस्थलीललितकुण्डलताडितानाम् / क्षोभस्फुटन्मुकुटकोटिविघट्टितानां नादोऽभवज्झणझणामुखरो मणीनाम् // 26 // ' . सेयमोजःकान्त्यभावादाश्लिष्टश्लथपुराणच्छायामाधुर्यसौकुमार्यवती समस्तपञ्चषपदा पाञ्चाली रीतिः // . गात्राविघातेति / अत्राद्यतृतीययोः षड् द्वितीये च पञ्च पदानि समस्तानि / ओजःकान्त्यभावादिति / ईषदर्थे नञ् / अत एव माधुर्यसौकुमार्ययोरुन्मेषः / लिटा प्राप्ता यथासंख्यमोजःकान्तिनिमीलनलब्धप्रादुर्भावा श्लथा पुराणी च च्छाया ययेति विग्रहः // . . 1. 'समस्त' ख. 2. शथभाव' ख. .