________________ 2 परिच्छेदः / सरस्वतीकण्ठाभरणम् / पद्यादौ मिश्रे द्रुतविलम्बिता यथा___'असौ विद्याधारः शिशुरपि विनिर्गत्य भवना दिहायातः संप्रत्यविकलशरच्चन्द्रमधुरः। .. यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुवलयितवातायनमिव // 24 // ' अत्र बालसुहृदा मकरन्देन सह विद्यामान्वीक्षिकीमधीते स एष माधवो नाम इति // ___ असाविति / दूतीकल्पे कयाचित्प्रच्छन्नप्रार्थनीयया 'आसंभोगमुन्नयेत्' इत्यानातम् / तदिहोत्प्रेक्षामनोहरग्राम्यमालोकनमुक्तम् / तेनैकस्मिन्वर्णनीयवस्तुनि वृत्तप्रपञ्चेनोक्ते प्रकृतसंगतिमात्रं गद्येन कृतवतीति युक्तेयमानुपूर्वी वाक्यैकवाक्यता चेति // वैदर्भादिकृतः पन्थाः काव्ये मार्ग इति स्मृतः / .. रीङ्गताविति धातोः सा व्युत्पत्त्या रीतिरुच्यते // 27 // .. वैदर्भादीति / गुणवत्पदरचना रीतिः / गुणाः श्लेषादयः काव्याव्यभिचारिणो नव / तेषामन्योन्यमीलनक्षमतया पानकरस इव, गुडमरिचादीनां खाडव इव मधुरामलादीनां यत्संमूर्च्छनरूपावस्थान्तरगमनं तत्संस्कारादेव हि लोकशास्त्रपदरचनातः काव्यरूपा च रचना व्यावर्तते / अत एव मृग्यते कविभिरासंसारमिति मार्गपदेनोच्यते / वैदर्भादयो विदर्भादिदेशप्रभवास्तैः कृतमुखहेवाकगोचरतया प्रकटितो न तु तत्तद्देशैः काव्यस्यं किंचिदुपक्रियते // पन्था इति / प्रतिष्ठन्ते हि महाकविपदवीलाभार्थिन इति / ईदृशमेव रीतिलक्षणमानन्दवर्धनादीनामपि मतम्। एतदुपलक्षणतया सूत्रं व्याख्यातम् / कथं पुनरुक्तमुपमादे रीतिपदं प्रवृत्तमित्यत आह-रीङ् गताविति / रियन्ते परम्परया गच्छन्त्यनयेति करणसाधनोऽयं रीतिशब्दो मार्गपर्याय इत्यर्थः // एवं सिद्धे सामान्यलक्षणे विभागमाह वैदर्भी साथ पाञ्चाली गौडीयावन्तिका तथा / लाटीया मागधी चेति षोढा रीतिर्निगद्यते // 28 //