________________ 154 काव्यमाला / अर्धसमच्छन्दसि विलम्बिता यथा-- 'विहितां प्रियया मनःप्रियामथ निश्चित्य गिरं गरीयसीम् / उपपत्तिमदूर्जिताश्रयं नृपमूचे वचनं वृकोदरः / / 20 // उत्कलिकाप्रायगद्ये द्रुता मध्या च यथा 'व्यपगतघनपटलममलजलनिधिसदृशमम्बरतलं विलोक्यते / .. अञ्जनचूर्णपुञ्जश्यामं शार्वरं तमः स्त्यायते // 21 // उत्कलिकाप्रायेति / उच्चावचभावेन प्रतिभासमानमुत्कलिका / यथा'सलीलकरकमलतालिकातरलयावलीकम्' इति / तथैव तदपि प्रकृतोदाहरणमिति व्यक्तम् / 'पाताल-' इत्यादौ वसन्ततिलकाभाग इव, 'हर इव' इत्यादावार्याभाग इव प्रतिभातीति // पद्यगन्धिगद्ये वृत्तगन्धौ मध्या, जातिगन्धौ द्रुता यथा 'पातालतालुतलवासिषु दानवेषु / ' 'हर इव जितमन्मथो गुह इवाप्रतिहतशक्तिः // 22 // " इति / वृत्तगन्धौ मध्या, जातिगन्धाविति / 'तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य' (7 / 1 / 74 ) इति पुंवद्भावेन नुम्न भवति // गद्यादौ मिश्रे गद्यपद्ययोर्द्वतमध्या यथा'हन्त, पुण्यवानस्मि, यदहमतर्कितोपनतदर्शनोल्लसितनयनयानया अविरलमिव दाम्ना पौण्डरीकेण नद्धः / - स्वपित इव च दुग्धस्रोतसां निझरेण / कवलित इव कृत्स्नश्चक्षुषा स्फारितेन .. प्रसभममृतवर्षेणैव सान्द्रेण सिक्तः // 23 // हन्तेति / आश्चर्यस्तिमितस्य हन्तेत्येव वागनुभावस्ततोऽभिमानोन्मेषे पुण्यवानस्मीति अनन्तरं लोकोत्तरविभाववर्णनात्त्वरितस्य यदहमित्यागद्यपर्यवसान एवाविरलमित्यादिवृत्तमाविरासीदिति / मध्ये विच्छेदकारणमनुपपत्तौ गद्यपद्याभ्या