________________ 2 परिच्छेदः।] सरखतीकण्ठाभरणम् / पयोधरा मेघाः स्तनौ च / तदेतस्मिन् द्रुतविलम्बितख्येि वृत्ते समाख्येव रूपं बोधयतीति // द्रुतमध्या यथा 'अपि तुरगसमीपादुत्पतन्तं मयूरं .... न स रुचिरकलापं बाणलक्ष्यीचकार / ... सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे ..... ___रतिविगलितबन्धे केशपाशे प्रियायाः // 17 // ' . .सेयं द्रुताया मध्यायाश्च गतेरन्तरानुप्रवेशाद्रुतमध्या गतिः // .. अपि तुरगेति / उत्पन्नाविर्भवद्बर्हगतोज्वलविचित्रकोमलमयूरस्तत्कालमव्याजप्रेमनियन्त्रणकण्ठग्रह विलुलितप्रियाकेशपाशवासनाविकासहेतुः सर्वखायमानः कथं बाणलक्ष्यतां सहत इति विप्रत्ययेन व्यज्यत इति / अत्र पादचतुष्केऽपि प्रथम द्रुता पश्चान्मध्या च भागशः प्रत्यभिज्ञायत इत्याह-सेयमिति // ......' मध्यविलम्बिता यथा- .................." : 'दुन्दुभयो दिवि दध्वनुरुच्चैरुच्चकराः कपयश्च ववल्गुः / .. सिद्धनिकायकराजविमुक्तं माल्यमथाङ्गदमूर्ध्नि पपात // 18 // ' सेयं मध्याया विलम्बितायाश्च गतेरन्तरानुप्रवेशान्मध्यविलम्बिता गतिः // . दुन्दुभय इति / अत्रापि प्रतिपादं पूर्व मध्या ततो विलम्बिता च खण्डशः प्रतिभासत इति दर्शयति-सेयमिति।। एवमर्धसमविषमयोर्मात्राच्छन्दःसु गद्यमिश्रयोर्लघुगुरून्मिश्रवर्णविन्यासविशेषभूयस्त्वेन द्रुतादिगतयो गवेषणीयाः // एवमिति / इमामेव व्यवस्थामर्धमध्यमादिष्वप्यतिदिश्यत इति दिङ्मात्रमुदाहरति तत्र. विषमवृत्तच्छन्दसि द्रुता यथा'अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् / क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनंजयः // 19 //