________________ . 152 ! काव्यमाला। रूपम् / गर्भगृहस्था नालोकयति चेत्तदाह-संप्रवदन्तीति / अत्र प्रतिपादमष्टौ लघवश्चत्वारो गुरव इति लघुबाहुल्ये संयोगाक्षराणामुद्रेके च ताललयवदतिव्यक्त एव द्रुतभावः // - समवृत्ते विलम्बिता यथा....... प्रणम्य हेतुमीश्वरं मुनि कणादमन्वतः / ....पदार्थधर्मसंग्रहः प्रवक्ष्यते महोदयः // 14 // - सेयं स्थाने स्थाने गुर्वक्षरयोगाद्विलम्बिता गतिः / प्रणम्येति। अत्र यद्यपि पदचतुष्टये गुरुलघूनां समसंख्यत्वमेव, तथापि संयोगाक्षरैरन्तरान्तरा पठितिदीर्घाभावोन्मेषादारोहप्राधान्ये विलम्बिता / एवं व्युत्क्रमेण समानिकायामपि विलम्बितव / यथा-'मीनजालघटितानि सूर्यरश्मिबोधितानि / मत्तषट्पदाकुलानि पश्य भीरु पङ्कजानिः॥' इति / तदिदमाह-सेयमिति / तेन विभागसूत्रे गुरुलघुमिश्रणमेवंरूपमपि बोद्धव्यमिति // - तत्रैव मध्या यथा- 'आसीदैत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः / ... वदन्ति स्म बलं बाह्वोः सितच्छत्रस्मिताः श्रियः // 15 // - सेयं नातिलध्वक्षरत्वान्मध्या गतिः / / * आसीदिति / अत्र यद्यपि गुरवो बहवस्तथापि न द्रुतिर्न विलम्बनं पठितेरित्यनुभवसाक्षिकोऽयमर्थस्तदेतदाह–नातिलध्वक्षरेति // . . द्रुतविलम्बिता यथा'अवतु वः सवितुस्तुरगावली स्फुरितमध्यगतारुणनायका। सेमविलचिततुङ्गपयोधरा मरकतैकलतेव नभःश्रियः // 16 // सेयं द्रुताया विलम्बितायाश्च गतेरन्तरानुप्रवेशाद्रुतविलम्बिता गतिः। अवतु व इति / अरुणो गरुडाग्रजः शोणश्च / नायको नेता हारमध्यमणिश्च / 1. 'गृहस्थो नालो' इति पाठः.. 2. 'प्रचक्षते' क. 3. 'लध्वक्षरप्रायत्वा' क. 4. 'समभिल' ख. .