________________ 2 परिच्छेदः। सरखतीकण्ठाभरणम् / 151 .. तत्रेति / वर्णनियतं छन्दोवृत्तम् / मात्रानियतं जातिः। समप्रस्तावं समम् / प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च तुल्यप्रस्तावमर्धसमम् / उभयबहिरर्धं विषमम् // * गद्यमुत्कलिकामायं पद्यगन्धीति च द्विधा / द्विधैव गद्यपद्यादिभेदान्मिश्रमपीष्यते // 25 // गद्यमिति / उत्कलिका कल्लोलस्तत्प्रायम् / उच्चावचमिव प्रतिभासमानमित्यर्थः। यथा--'सलीलकरकमलतालिकातरलवलयावलीकम्' इति / वृत्तगन्धि प्रतिभातवृत्तकदेशम् / तदेतदल्पाख्यायामुत्पन्नेन समासान्तेन व्यञ्जितम् / तदयमर्थः-सामान्यतः पद्यादिभेदेन गतिस्त्रिधा। तत्रापि जात्यादिभेदेन षट्प्रकाराः / तेऽपि द्रुतादिभेदेन षट्त्रिंशदिति // ननु ललितादयो गद्यभेदाः कैश्चिदलंकारकारैः परिसंख्यातास्ते कस्मान्नोच्यन्त इत्यत आह. ललितं निष्ठुरं चूर्णमाविद्धं चेति योऽपरः। विशेषः स तु गद्यस्य रीतिवृत्त्योभविष्यति // 26 // ललितमिति / सुकुमारसंदर्भ ललितम् / यथा—'कमलिनीवनसंचरणव्यतिकरलग्ननलिननालकण्टके वने क्वचिन्निर्भरं पदमादधाति' इति / प्रस्फुटसंदर्भ निठुरम् / यथा-'उत्तम्भितकुटिलकुन्तलकलापः श्मशानवाटमवतरति' इति / अनुल्लिखितसमासं चूर्णम् / यथा-'अभ्यासो हि कर्मणः कौशलमादधाति / न खलु संनिपातमात्रेणोदविन्दुरपि ग्रावणि निम्नतामादधाति' इति / उद्भटसमासमाविद्धम् / यथा---'कुलिशशिखरखरतरखरप्रचयप्रचण्डचपेटपाटितमत्तमातगमदच्छटाच्चरितचारुकेसरभारभासुरमुखे केसरिणि' इति / रीतिवृत्त्योरिति विषयसप्तनी / तथा ललितं कैशिक्यादौ, निष्ठुरमारभट्यादौ, चूर्णं वैदादौ, आविद्धं गौडीयाप्रभृतौ, यथायथमन्तर्भवतीति नोक्तभेदाः परिसंख्याता इत्यर्थः // उक्तप्रकारेषु किंचिदुदाहरति'तत्र पद्यभेदेषु समवृत्ते द्रुता गतियथा'अयि विजहीहि दृढोपगूहनं त्यज नवसंगमभीरु वल्लभम् / 1. अरुणकरोद्गम एष वर्तते वरतनु संप्रवदन्ति कुक्कुटाः // 13 // . सेयं समवृत्ते लघुसंयुक्ताक्षरभूयस्त्वाद्रुता गतिः // .... तत्रेति / नवसंगमभीर्विति संबोधनम्। भीरुशब्दादूङ्, तस्मात्संबोधनहले.