________________ 150 : काव्यमाला। कश्चिद्गद्येनेति / यथा वटवीवर्णनादौ गद्यं प्रगल्भते तथा न पद्यम् , यथा च काव्यशास्त्रतानिर्वहणोचितेऽर्थे पद्यमुत्सहते न तथा गद्यमित्यादि / एवं कथाख्यायिकादौ गद्यमेव, चम्पूप्रभृतौ मिश्रमेवेत्यादिपदोपात्तबन्धौचिती द्रष्टव्या // आस्तां तावदाद्यौचित्यगवेषणं खरूपेणैव पद्यादिकं परिस्फुरत्कविप्रतिभाविशेषावेदनेन सहृदयावर्जकमवसीयते। कथमन्यथा क्वचिदेव कस्यचित्सौष्ठवमित्याह यादृग्गयविधौ बाणः पद्यबन्धेऽपि तादृशः / गत्यां गत्यामियं देवी विचित्रा हि सरस्वती // 20 // यादृगिति / गत्यां गयामिति / पद्ये गये मिश्रे चेत्यर्थः / विचित्रा अव्यवस्थितसिद्धिका // प्रयोगव्यवस्थामुपपादयति यथामति यथाशक्ति यथौचित्यं यथारुचि / कवेः पात्रस्य चैतस्याः प्रयोग उपपद्यते // 21 // .. यथामतीति / मतिर्युत्पत्तिः / युक्तायुक्तविवेक इति यावत् / शक्तिः कवित्वबीजभूतः प्राक्तनः संस्कारः / औचित्यं दार्शतमेव / रुचिर्मनोनुकूलताप्रतिसंधानम् / कवेः पात्रस्येति यथायोगम् / तथा हि शक्तिव्युत्पत्ती कवेरेव / औचिलं पात्रस्यैव / रुचिरुभयोरपीति // स चायं संदर्भावच्छेदो गुरुलघुसंनिवेशेनैव शोभत इति तमाश्रित्य विभागमाह द्रुता विलम्बिता मध्या साथ द्रुतविलम्बिता। .... द्रुतमध्या च विज्ञेया तथा मध्यविलम्बिता // 22 // द्वतेति / आद्यास्तिस्रः शुद्धाः। आसामेव मिथोव्यतिकरेणोत्तरास्तिस्रः संकीर्णाः॥ कथमेषां व्यवस्थेत्यत आह सा लघूनां गुरूणां च बाहुल्याल्पत्वमिश्रणैः। पद्ये गये च मिश्रे च षट्प्रकारोपजायते // 23 // ... सा लघूनामिति / बाहुल्यमल्पत्वं मिश्रणं च तुल्यवत्प्रतिभानम् / न गद्यादिकमेव गतिः किंतु तदाधारः पठितिसंचार इति व्यनक्ति-पद्ये गये च मिश्रे चेति॥ / तत्र वृत्तं च जातिं च पद्यमाहुरथो पृथक् / समं चार्धसमं चैतद्विषमं च प्रचक्षते // 24 //