________________ 148 : काव्यमाला। विजूमणोहरी' इत्याराध्याः / अन्ये तु लपतीत्यर्थमाहुः / एवं च कलशब्दः पुष्यतीति / याम्यो दक्षिणः / निवाअर निर्वञ्चको वारकशून्यो वा इदावारक इति / अला आगतः। यदिह मानो न क्रियेत ज्योत्स्नादयो मनोमुदमेवाधास्यन्तीति प्ररोचना / यदा तु 'मनोनुदे' इति पाठोऽपिशब्देन नायकसाधारणमुत्कण्ठाकारित्वमुक्तं चन्द्रज्योत्स्नादीनामिति / अतो नकजनकजन्नार्थो नार्थ ईर्ष्यारोषलक्षणेन प्रतिकूलभावावलम्बिना मानेन, तस्मात्प्रियमेव प्रतिजाहुदा यामः; यदामनन्ति वयं वा तत्र गमनमिति // क्रीडागोष्ठीविनोदाद्यानन्यगामिन्यसाधारणी यथा 'भीष्मप्रोक्तानि वाक्यानि विद्वद्वक्रेषु शेरते / . गोसे तिविञ्छिरिन्छोली तल्लं तूहे विवल्लिदा // 11 // अत्र पूर्वार्धपदानि संस्कृत एव, उत्तरार्धपदानि प्राकृत एव / सेयमसाधारण्यनन्यगामिनी च जातिरुच्यते / भाषान्तराणां पुनरसाधारण्यं नास्ति / ... क्रीडेति / काव्यसमस्या क्रीडा, उक्तपूर्वा गोष्ठी, तत्र विनोदो मनोनुकूलेन समयातिवाहनम् / आदिपदं पूर्ववत् / ननु मा भूत्प्रकृतिभावेन भाषान्तरसंभेदः संस्कारसंपाते तु भविष्यति, तथा च कथं साधारणीतो भिद्यत इत्यत आहअसाधारणी चेति / गोसे प्रभाते, तविञ्छिरिन्छोली कमलरजःपतिः। तल्लमल्पसरः / तूहं तीर्थम् / विवल्लिदा प्रसारिता / नात्र पूर्वोत्तरार्धयोरैकमत्यमुदाहरणत्वात् / आराध्यास्तु यथा सरस्तीरे कमलरजःपङ्क्तिः प्रसृता शोभते तथा विद्वद्वक्रेषु भीष्मवाक्यानीत्युपमाकल्पनया कथंचिदेकवाक्यतामाहुः / अत्र पूर्वा. र्धपदानीति / न भीष्मादयोऽनभिधानादिति भाषान्तरस्थानिभावस्य प्रतिषेधात् / एवं वाचस्पतिविशिष्टरसवशप्रचेतसपोतादयो द्रष्टव्याः / प्राकृत एवेति / महाराष्ट्रदेशीयत्वाद्देशीपदानां च स्थानिभावासंभवात् / भाषान्तराणां पुनरिति / सिद्धिर्महाराष्ट्रीतः, सिद्धिः शौरसेनीतः, इत्युपक्रम्यानुशासनात्तद्भवरूपतैव स्फुटा। तत्समानां तु साधारण्यमेवेति // . अपभ्रष्टा यथा 'मुद्धे गहण गेण्हउ तं धरि मुदं णिए हत्थे / .. णिच्छउ सुन्दरि तुह उवरि मम सुरअप्पहा अस्थि // 12 //