________________ 147 2 परिच्छेदः 1) सरस्क्तीकण्ठाभरणम् / नात्युत्तमभूमिकास्त्रोत्तमपात्रप्रयोज्या संस्कृतपैशाची साधारणी यथा 'चम्पककलिकाकोमलकान्तिकलापाथ दीपितानङ्गी / - इच्छति गजपतिगमना चपलायतलोचना लपितुम् // 8 // एवं संस्कृतापमंशादिसाधारण्यः प्राकृतादिभाषान्तरसाधारण्यश्व द्रष्टव्याः // नात्युत्तमेति / अनङ्गस्येयमानङ्गी // वक्तृविषयौचित्यादिप्रयोज्या मिश्रा यथा'जयति जनताभिवाञ्छितफलप्रदः कल्पपादपो गिरिशः / जअइ अ तमल्लिअन्ती. गिरितनया पणइकप्पलआ // 9 // ' [जयति च तमालीयमाना गिरितनया प्रणयिकल्पलता।] * एवं भाषान्तराणामपि मिश्रीभावो द्रष्टव्यः // . . वक्त विषयेति / यदोत्तमादिषु नानावक्तृभिरेका काव्यसमस्या क्रियते, भिन्नभाषोचितवर्णनीयविषयं वा काव्यमेकमुपक्रम्यते, यदा वा शक्तिनिरूपणाय कवेरेव नानाभाषामयं काव्यमारब्धं स्यात्, तदा कथं नालंकारपदवीमध्यास्ते / अत आह-मिश्रेति / तमल्लिअन्ती तमालीयमाना // दुर्विदग्धादिपात्रप्रयोज्या संकीर्णा यथा'अकटगुमटी चन्द्रज्योत्स्ना कलं किल कोइलो ___ लवइ अ मुहुर्याम्यो वायुर्निवाअर वाइ अ / अवि सखि अला रक्ताशोकस्तवापि मनोमुदे न कज न कजं मानेनाद्य प्रियं प्रतिजाहुदा // 10 // ' सोऽयं संस्कृतमहाराष्ट्रापभ्रंशयोगस्तिलतण्डुलवत्संकीर्णा जातिः / एवं प्राकृतापभ्रंशसंकरोऽपि द्रष्टव्यः // दुर्विदग्धादीति / नागरकभावमवाप्तस्तद्भूमिकामवलम्बमानो दुर्विदग्धः / आदिपदात्पूर्वोक्ताः समस्यादयः / अकटमाश्चर्यम् / गुमटी मनोज्ञा / आस्फालितखड्गस्येव स्फुरणे लवह इति महाराष्ट्रदेशी / तथा च प्रयोगः-'लवइ अ