________________ 146 - काव्यमाला / पदाभिधेयं तक्रम् / पुत्तहुमत्थे इति शपथः, पुत्रस्य मस्तकेनाहं शपे यदि तक्रस्य व्यापकं दधि जन्मन्यपि जातमासीदिति व्यापकानुपलब्धिः प्रयुक्ता // ननु प्राकृतादिषूत्तमादिपानव्यतिकरदर्शनात्कथमेषा व्यवस्था घंटत इत्यत आह-प्रायिकमिति / यत्र प्रकृतिनिर्वहणोचितविशेषाभिसंधानेन कविरन्यथा प्रवर्तते / यथा मालत्यां संस्कृतमाश्रित्य “एषोऽस्मि भोः कार्यवशात्प्रयोगवशाच्च प्राकृतभाषी संवृत्तः' इत्यादि / यत्र वा कवेव्युत्पत्तिकृतो भाषाविपर्यासः शक्त्या तिरस्क्रियते / यथा मृच्छकटिके विटस्य मध्यमपात्रस्यापि संस्कृतोक्तिः / यत्र वा प्रबन्धौचितीपरवशाः संस्कृतादिजातयो विपर्यस्यन्ते / यथा सर्गबन्धादौ मध्यमादेरपि संस्कृतमेव, खण्डकथापरकथादौ उत्तमादेरपि प्राकृतमेव, बृहत्कथादौ पैशाचमेव, वस्तुबन्धादावपभ्रंश एवेति, तत्र संधिसंध्यङ्गघटनासौष्ठवेन रसः पुष्यतीति भरतमुनिप्रभृतीनामतिप्रकाश एव पन्थाः // साधारण्यादयः पुनरनन्ताः। तासु मध्यमपात्रभूमिकास्थोत्तमपात्रप्रयोज्या संस्कृतप्राकृतयोः साधारणी यथा "सरले साहसरागं परिहर रम्भोरु मुञ्च संरम्भम् / विरसं विरहायासं सोढुं तव चित्तमसहं मे // 7 // साधारण्येति / संस्कृतस्य प्राकृतादिसाधारण्ये पञ्च प्रकाराः, प्राकृतस्य शौरसेन्यादिसाधारण्ये चत्वारः, शौरसेन्याः पैशाच्यादिसाधारण्ये त्रयः, पैशाच्या मागध्यादिसाधारण्ये द्वौ, मागध्या अपभ्रंशसाधारण्ये एक इति / द्विविकल्पे पञ्चदश प्रभेदाः, त्रिविकल्पे विंशतिः, चतुर्विकल्पे पञ्चदश, पञ्चविकल्पे षट्, षड्विकल्पे एकः, इति सर्वमिलने सप्तपञ्चाशत्प्रकारा साधारणी / एवं मिश्रादावपि लोष्टप्रस्तावक्रमेण बहवो भेदा इति तावदुदाहरणे ग्रन्थगौरवं स्यादिति दिङ्मात्रमुदाहरतिताविति / संभिन्नसंस्कारा भाषाप्रयोगे हि प्रयोत्कृप्रकृतिसंभेदे भवति / न च प्रकृतिसंभेदस्तात्त्विकः खभावसंकरप्रसङ्गात् / अत उक्तं मध्यमपात्रभूमिकास्थेति / भूमिका वर्णिका। मध्यमपात्रप्रकृत्युचितो रागाद्यभिनयस्तत्र तिष्ठति तत्परिग्रहेण त्रिचतुर(?)गवत्सामाजिकानां सम्यमिथ्यासंशयसादृश्यप्रतीतिविलक्षणप्रतिपत्तिपदवीमवतरतीति मध्यमपात्रभूमिकास्थम् , उपलक्षणं चेदम्। उत्तमभूमिकास्थमध्यमप्रयोज्यापीयमेव / एवमुत्तरत्र / तव विरहायासं सोढुं मम चित्तमसहमिति योजना॥..