________________ 2 पोरच्छदः / सरलताकण्ठाभरणम् / मात्युत्तमपाचप्रयोज्या पैशाची शुद्धा यथा'पनमत पनअपकुप्पितगोलीचलनग्गलग्गपडिबिम्बम् / दससु नहदप्पनेसु एआदसतनुधलं लुद्दम् // 4 // प्रणमत प्रणयप्रकुपितगौरीचरणाग्रलग्नप्रतिबिम्बम् / दशसु नखदर्पणेष्वेकादशतनुधरं रुद्रम् // ] - नात्युत्तमेति / उत्तमादपकृष्टं मध्यमादुत्कृष्टं नात्युत्तमम् / 'प्रणमत प्रणयप्रकुपितगौरीचरणाप्रलमप्रतिबिम्बम् / दशसु नखदर्पणेष्वेकादशतनुधरं रुद्रम् // ' एवं नाम देवीकोपे भगवतः प्रणयकातरता येन युगपदिव सर्वाभिरपि मूर्तिभिः प्रणमतीति प्रतीयमानोत्प्रेक्षा // नातिमध्यमपात्रप्रयोज्या शौरसेनी शुद्धा यथा'तुं सि मए चूअङ्कुर दिण्णो कामस्स गहिदधणुहस्स। .. जुवइमणमोहणसहो पञ्चब्भहिओ सरो होहि // 5 // ' [त्वमसि मयां चूताङ्कर दत्तः कामस्य गृहीतधनुषः / युवतिमनोमोहनसहः पञ्चाम्यधिकः शरो भव // ] , नातिमध्यमेति / हीनादुत्कृष्टं मध्यमादपकृष्टं नातिमध्यमम् / तुं सीति / कामस्य / कामायेत्यर्थः / चतुर्थ्याः ‘संबन्धसामान्यविवक्षायां षष्ठी' इति सूत्रात् षष्ठी॥ नातिहीनपात्रप्रयोज्योऽपभ्रंशः शुद्धों यथा'लइ वप्पुल पिअ दुद्धं कत्तो अम्हाणहुँ छासि।... पुत्तहुमत्थे हत्थो जइ दहि जम्मेवि जअ आसि // 6 // ' . [गृहाणानुकम्प्य पिब दुग्धं कुतोऽस्माकं तक्रम् / पुत्रकमस्तके हस्तो यदि दघि जन्मन्यपि जातमासीत् // ] प्रायिकं चैतत् / तेन कवेरभिप्रायशक्त्यादिभ्यः सर्वा अपि सर्वप्रयोज्या भवन्ति / ता इमाः शुद्धाः षडेव // नातिहीनेति / हीनात्किंचिदुत्कृष्टं मध्यमादपकृष्टं नातिहीनम् / लइ वप्पुलेति / लइ गृहाण / वप्पुलेत्यनुकम्पासंबोधने। पिब दुग्धम् / कुतोऽस्माकं छासि 10 स० क. पुत