________________ ,, काव्यमाला.... वस्थितभागद्वयात्मिका मिश्रा / रूपमिश्रणात्तिलतण्डुलन्यायेन संकीर्णा / विजातीयवस्त्वन्तरव्यतिरेक एव लोके संकीर्णव्यवहारात् / . या पुनः प्रकृतिभावेनापि भाषान्तरसंपर्क न सहते सानन्यगामिनी। संस्कारसंमेदेन वा प्रकृतिभावेन वा नान्यं गच्छति यतोऽपशब्दरूपा सापभ्रष्टा // तासूत्तमपात्रप्रयोज्या संस्कृतजातिः शुद्धा यथा'उन्नमितैकभूलतमाननमस्याः पदानि रचयन्त्याः। कण्टकितेन प्रथयति मय्यनुरागं कपोलेन // 1 // ' .. तासूत्तमेति / पात्रलक्षणमुत्तमादिमेदश्च पञ्चमे वक्ष्यते। उन्नमितैकेति / पदानि प्रकृतानङ्गलेखोचितानि निर्व्याजप्रेमगर्भाणि / अत एवावापोद्वापप्रतिसंधाननिमनमानसायाश्चिन्तानुभावरूपं भूलताविरेचितमिवासीत् / हस्ततलनिहितैककपोलायास्तादृक्पुलकितैककपोलदर्शनादतिमानात्मा शृङ्गारः सुप्रबुद्ध इव तत्कालं नायकस्यापीति मिथोऽनुबन्धलक्षणापूर्वानुरागकक्षामधिरूढा रतिरेव काव्यसर्वखायते। अत्र च कस्यचित्पदस्य भाषान्तरसाधारण्येऽपि भूयसामुदाहरणत्वम् / एवमन्यत्रापि // मध्यमपात्रप्रयोज्या प्राकृतजातिः शुद्धा यथा'तुज्झ ण आणे हिअ मम उण मअणो दिआ अ रतिं अ। णिक्तिव तवेइ वलिअं तुह जुत्तमनोरहाई अङ्गाइं // 2 // [तव न जाने हृदयं मम पुनर्मदनो दिवा च रात्रिं च / निष्कृप तपति बलवत्त्वयि युक्तमनोरथान्यङ्गानि // ] तुज्झेति / वलिअं बलवत्कृतमभिमुखम् // हीनपात्रप्रयोज्या मागधिका यथा'शद माणशमंशभालके कुम्भशहश्श वशाहि शंचिदे। अणिशं च पिआमि शोणिदे वलिशशदे शमले हुवीअदि // 3 // शतं मानुषमांसभारकाः कुम्भसहस्रं वसाभिः संचितम् / ......... अनिशं च पिबामि शोणितं वर्षशतं समरो भविष्यति // ] . . शद माणुशेति / शतं मानुषमांसभारः कुम्भसहस्रं वसाभिः संचितम् / अनिशं च पिबामि शोणितं वर्षशतं समरो भविष्यति // ' अत्र मांसादिलाभहेतुतया समराशंसनं. बीभत्समुन्मुद्रयद्धीनपात्रतां द्रढयति // ......