________________ - 2 परिच्छेदः / सरखतीकण्ठाभरणम् / 143 ....... ब्रह्मन्विज्ञापयामि त्वां स्वाधिकाराजिहासया / ... ... गौडस्त्यजतु वा गाथामन्या वास्तु सरस्वती // 11 // - ब्रह्मन्निति / ब्रह्मन्नित्यादिना निन्दानुवादेन गौडेषु प्राकृतानौचित्यं राजशेखरेण व्यञ्जितम् // समयौचितीं दर्शयति केऽभूवन्नाढ्यराजस्य राज्ये प्राकृतभाषिणः।। काले श्रीसाहसाङ्कस्य के न संस्कृतवादिनः // 15 // - केऽभूवन्निति / आढ्यराजः शालिवाहनः / साहसाङ्को विक्रमादित्यः। प्रन्थकृत्पूर्वजतया श्रीपदम् // - ता इमाः परस्परसंकीर्णाः षडेव संस्कृतादिभाषा भवन्तीति सामान्यविभागमेतद्विरचनप्रयोजनं चोपसंहरति गिरः श्रव्या दिव्याः प्रकृतमधुराः प्राकृतधुराः सुभव्योऽपभ्रंशः सरसरचनं भूतवचनम् / विदग्धानामिष्टे मगधमथुरावासिभणिति निबद्धा यस्तेषां स इह कविराजो विजयते // 16 // ___गिर इति / दिव्याः संस्कृताः / भूतवचनं पैशाचम् / मथुरावासिभणितिः शौरसेनी / तेषामिति / तच भूतवचनं स चापभ्रंशस्ताश्च दिव्याद्या इति 'नपुंसकमनपुंसकेन' इत्येकशेषः / पाक्षिकं बहुवचनम् / प्रतिभार्थप्राणानां जीवद्वर्णनानिपुणो हि कविः, स एव हि सर्वपथीनतादृगुक्तिसिद्धिसंपन्नः कविराजः, अत एव विजयते सकललोकशास्त्रवचननिर्मातृभ्यः प्रकर्षेण वर्तत इति // . संस्कृतादिषु यथायोगं शुद्धादिमेदेन जातिः षोढा भिद्यत इत्याह___शुद्धा साधारणी मिश्रा संकीर्णा नान्यगामिनी / ... अपभ्रष्टेति साचार्यैर्जातिः षोढा निगद्यते // 17 // शुद्धा साधारणीति / इह भाषारूपविषयभेदेन भिन्नाः संस्कारा यानधिकृत्य पाणिनि-वररुचि-प्रभृतीनामनुशासनानि व्यवतिष्ठन्ते / तद्यत्रैक एव संस्कारः प्रत्यभिज्ञायते सा शुद्धा / संस्कारान्तराग्रहणात् / यत्र तु लक्षणसंमेदेन नाना· संस्कारसंपातः क्षीरनीरवत्सा साधारणी / रूपसाधारण्यानरसिंहवद्भाषासेदव्य