________________ 142 काव्यमाला / विषयौचितीमाह न म्लेच्छितव्यं यज्ञादौ स्त्रीषु नाप्राकृतं वदेत् / संकीर्ण नाभिजातेषु नाप्रबुद्धेषु संस्कृतम् // 8 // न म्लेच्छितव्यमित्यादि / म्लेच्छनमपशब्दः / प्राकृतं संस्कृतभवम् / अभिजातः शुद्धान्वयः // अथ के संस्कृताधुचितवक्तार इत्यत आह देवाद्याः संस्कृतं प्राहुः प्राकृतं किन्नरादयः / पैशाचाद्यं पिशाचाद्या मागधं हीनजातयः // 9 // देवाद्या इति / आदिग्रहणेन ऋषिभूमिपतिप्रभृतयः // वाच्यौचितीं दर्शयति संस्कृतेनैव कोऽप्यर्थः प्राकृतेनैव वापरः / शक्यो रचयितुं कश्चिदपभ्रंशेन जायते // 10 // संस्कृतेनैवेति / यथा हि-देवतास्तुत्यादौ संस्कृतं प्रगल्भते न तथा प्राकृतादि / यथा च सूक्ष्मवस्तुखरूपोदृङ्कने प्राकृतस्य सौष्ठवं न तथा संस्कृतादेरित्यादि // पैशाच्या शौरसेन्यान्यो मागध्यान्यो निबध्यते / द्विवाभिः कोऽपि भाषाभिः सर्वाभिरपि कश्चन // 11 // पैशाच्येति / द्वित्राभिः कोऽपि काव्यसमस्याभेदस्यार्थः / सर्वाभिः कश्चन प्रकरणादेरर्थः // विषयौचित्यमेव क्वचिद्विशेषे कान्तिप्रकर्षमर्पयन्तीमाह- . ___ नात्यन्तं संस्कृतेनैव नात्यन्तं देशभाषया / - कथां गोष्ठीषु कथयँल्लोके बहुमतो भवेत् // 12 // नात्यन्तमिति / समानबुद्धिशीलवयसां विनोदार्थमासनबन्धो गोष्टी // देशौचितीमाह शृण्वन्ति लटभं लाटाः प्राकृतं संस्कृतद्विषः। अपभ्रंशेन तुष्यन्ति स्खेन नान्येन गुर्जसः // 13 // शृण्वन्तीति / लटभं मनोज्ञम् / खेन गुर्जरजातीयेन // .