________________ '2 परिच्छेदः / सरखतीकण्ठाभरणम् / शब्दालंकारसामान्यलक्षणमाह ये व्युत्पत्त्यादिना शब्दमलंकर्तुमिह क्षमाः। "., शब्दालंकारसंज्ञास्ते ज्ञेया जात्यादयो बुधैः // 2 // / ये व्युत्पत्तीति / विशिष्टा उत्पत्तिद्युत्पत्तिर्लोपागमविकारादिप्रपञ्चः / अत एव हि संस्कृतादिजातयो व्यवतिष्ठन्ते / आदिग्रहणाद्गुरुलघुसंनिवेशादयो गत्याद्यवच्छेदास्त्रयोविंशतिरुपात्ताः / बाह्यकङ्कणादिसाम्यादियं संज्ञा प्रवृत्तेत्याह-शब्दालंकारसंज्ञा इति // ...... ... जातिर्गती रीतिवृत्तिच्छायामुद्रोक्तियुक्तयः।। भणितिर्गुम्फना शय्या पठितिर्यमकानि च // 3 // श्लेषानुप्रासचित्राणि वाकोवाक्यं प्रहेलिका। गूढप्रश्नोत्तराध्येयश्रव्यप्रेक्ष्याभिनीतयः॥४॥ ते च प्रति विशेषं वक्ष्यन्ते- . . . ...' चतुर्विंशतिरित्युक्ताः शब्दालंकारजातयः / ..... अथासां लक्षणं सम्यक्सोदाहरणमुच्यते // 5 // शब्दालंकारजातयः शब्दालंकारसामान्यानि // खरूपस्थितौ रूपान्तरगवेषणमनुचितम् / अतो जातेः प्राधान्यात्प्रथम लक्षणमित्याह तत्र संस्कृतमित्यादिर्भारती जातिरिष्यते / / सा त्वौचित्यादिभिर्वाचामलंकाराय जायते // 6 // तत्रेति / संस्कृतमिति भावप्रधानो निर्देशः / भारतीग्रहणं स्पष्टार्थम् / नन्ववश्यं शब्देन संस्कृताद्यन्यतमेन भवितव्यम् / तत्कोऽत्र' कवेः शक्तिव्युत्पत्त्योरंशो येनालंकारता स्यादित्यत आह–सेति / औचित्याकृष्ट एवालंकारः / अस्ति च संस्कृतादेरपि तथाभाव इति भावः // यद्यप्योंचिती पूर्व दर्शयितुमुचिता तथापि प्राधान्यमावेदयितुं पृथक्तौचितीमाह संस्कृतेनैव केऽप्याहुः प्राकृतेनैव, केचन / .. साधारण्यादिभिः केचित्केचन म्लेच्छभाषया // 7 //