________________ 140 काव्यमाली / ते चालंकारा यथास्थानं निवेश्यमाना एव सहृदयरञ्जनक्षमा इति कवीशिक्षयति दीर्घापाङ्गं नयनयुगलं भूषयत्यञ्जनश्री.. - स्तुङ्गाभोगौ प्रभवति कुचावर्चितुं हारयष्टिः। मध्ये क्षामे वपुषि लभते स्थानकूर्पासलक्ष्मीः . श्रोणीबिम्बे गुरुणि रशनादाम शोभां बिभर्ति // 16 // इति श्रीमहाराजाधिराजभोजदेवेन विरचिते सरस्वतीकण्ठाभरण नानि अलंकारशास्त्रे गुणविवेचनं नाम प्रथमः परिच्छेदः / दीर्घति / तेन शब्दादिविषयविभागेनालंकारविवेचनं सप्रयोजनमेवेति तात्पर्यार्थः / शेषमतिरोहितम् // . .. इति श्रीमिश्ररत्नेश्वरविरचिते रत्नदर्पणनानि सरस्वतीकण्ठाभरण-.. : विवरणे गुणविवेचनो नाम प्रथमः परिच्छेदः / / : द्वितीयः परिच्छेदः। क्षेत्रमध्यं विशालाक्षी यस्याधिवसति प्रिया। .... अविमुक्तप्रतिष्ठाय तस्मै कामद्रुहे नमः // '. आद्यं स्फुरतु वाग्देव्याः कण्ठाभरणकौतुकम् / मयि प्रह्वमनोवृत्तौ तन्वाने रत्नदर्पणम् // एवं दोषगुणेषु निर्णीतेष्वलंकाराः प्राप्तावसरास्तत्रालंकारसामान्यलक्षणमाद्यपरिच्छेदें तद्विभागं दर्शयन्परिच्छेदत्रयं संगमयति:: शब्दार्थोभयसंज्ञाभिरलंकारान्कवीश्वराः।. बाह्यानाभ्यन्तरान्बाह्याभ्यन्तरांश्चानुशासति // 1 // शब्दार्थोभयसंशाभिरिति / इत्यंभूतलक्षणे तृतीया। मध्यमपदलोपीसमासः। तेन शब्दालंकारार्थालंकारोभयालंकारसंज्ञाभिरित्यर्थः / गुणप्रस्तावे वाह्यत्वादिकं विवृतं शब्दोऽवच्छेदकतयाः प्रथमप्रतिसंधेयभावेन, च शरीरस्थानीयो बाह्यस्ततस्तदाश्रया अलंकारा अपि बाह्याः / अर्थो विच्छेद्यतया पश्चादनुसंधेयतया चात्मतुल्य आभ्यन्तरस्तेन तदाश्रया अलंकारा अप्याभ्यन्तराः। एतेन बाह्याभ्यन्तरा व्याख्याताः / आश्रयाश्रयिभावश्च यथातथोक्तमेव / उभयालंकारेषु योगस्य प्रायिकत्वमाश्रित्य कवीश्वराणामनुशासनमुक्तम् / एतद्विवेचयिष्यते चतुरिममे //