________________ काव्यमाला। इव भासते, तथापि विशेषतोऽलंकाराध्यवसायेऽपि सामान्येन वक्रता प्रकाशत एव / नहि लौकिकशास्त्रीयवचनार्थवैपरीत्यमिह प्रतीयते / तदिदमुक्तमॉर्जित्यादिति // . __ अस्ति हि वयं याचामह इत्युक्ते याच्या च भिक्षाकरानालक्षिता(?)इत्युक्तौ नायकप्रकर्षाभिव्यञ्जको विशेष इत्याह.. असभ्यार्थ यदश्लीलं तदर्थान्तरवाचि वा। " तस्येह दृश्यते भूम्नां प्रयोगो नापि दुष्यति // 152 // यथा'अद्यापि तत्कनककुण्डलघृष्टगण्ड मास्यं स्मरामि विपरीतरताभियोगे / ... ' आन्दोलनश्रमजलस्फुटधर्मबिन्दु-... ... मुक्ताफलप्रकरविच्छरितं प्रियायाः // 195 // . __ अत्राश्लीलार्थेऽपि कविभिरविगीतत्वाद्गुणत्वम् // ....... , असभ्यार्थमिति / क्वचित्प्राथमिक एंव पदार्थसंसर्गोऽश्लीलः / क्वचित्तु न तस्मिंस्तथाभूतेऽपि संसर्गान्तरमिति यदश्लीलमर्थान्तरवाचि वेत्युक्तम् / कविभिरविगीतत्वादिति / अविपरीताद्विपरीतं रतमुत्कृष्यत इति शास्त्रकारैरानानात्तस्य शृङ्गारोद्दीपनतया कविभिरातत्वादित्यर्थः // .. देशोऽद्रिवनराष्ट्रादिः कालो रात्रिंदिवर्तवः / नृत्यगीतप्रभृतयः कलाः कामार्थसंश्रयाः // 153 // चराचराणां भूतानां प्रवृत्तिर्लोकसंज्ञिता / हेतुविद्यात्मको न्यायः संस्मृतिः श्रुतिरागमः // 154 // तेषु तेष्वयथारूढं यदि किंचित्प्रवर्तते / कवेः प्रमादाद्देशादिविरोधीत्येतदुच्यते // 155 // विरोधः सकलेवेव कदाचित्कविकौशलान् / / -- उत्क्रम्य दोषगणनां गुणवीथीं विगाहते // 156 // 1. 'लोऽप्येष' इति, सटीकपुस्तकपाठः